SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ सूत्रं 39] स्वोपज्ञभाष्य-टीकालकृतम् 197 ____टी-तेषाम् , अनन्तरमूत्रोपदिष्टानानौदारिकादीनां शरीराणां परं परं सूक्ष्म वेदितव्यम् / नि तत्वादादिशब्दप्रयोगः, औदारिकादीनामन्यार्थवाचित्वमपि सम्भवतीति, अतो विशेषणं शरीराणामिति / विशरणशीलत्वाच्छरीराणि / परं परमिति वीप्सया व्याप्ति दर्शयति, पूर्व पूर्वमपेक्ष्य औदारिकादीनां परं परं सूक्ष्म मूक्ष्मगुणं द्रव्यं सूक्ष्मं तद् यत्रास्ति तत् सूक्ष्मम्, अर्शआदिपाठाच्छरीरम्, अतोऽयमर्थः सूक्ष्मपरिणामपुद्गलद्रव्यारब्धं वेदितव्यम्अवसेयम् / एतेन प्रामाण्याधिकृतं चोद्यमपास्तं भवति, सूक्ष्मत्वादेव च प्रायो वैक्रियादिचतुष्कस्य दर्शनमनुपपन्नम् , इह परिणतिविशेषमङ्गीकृत्य पुद्गलाः केचिदतिस्थूलतया वर्तन्तेऽल्पेऽपि सन्तो भेण्डकाष्ठादिषु, केचिन्निचिततरपरिणामभाजोऽतिभूयांसोऽपि सूक्ष्मावस्थामासादयन्ति करिदशनादिपु, प्रसिद्धं चैतत् प्रायस्तुलामारोपिते भेण्डदन्तखण्डे प्रमाणतः सदृशे परिणामागतार्मतिविप्रकृष्टां धियमाधत्ते इति, तदेतत् परिशिथिलां परिणतिमनपेक्ष्य निचिततरां पुद्गलानामन्यथा लाघवं गौरवं वा प्रतिषनुमशक्यं तुल्यप्रमाणत्वे सति, अतः पूर्वपूर्वमुत्तरोत्तगपेक्षया शरीरं परिस्थरद्रव्यारब्धगतिशिथिल निचयमदभ्रं च भवत्युत्तरं मूक्ष्मं प्रत्यारब्धमतिवननिचयमणु च भवतीति पुगलद्रव्यपरिणतेवेचिच्यात् / असुमेवार्थ भाष्यकारः प्रकाशयन्नाह-तद्यथा-औदारिकादित्यादि / तदेतद यथा स्पष्टतरं भवति तथा वेद्यते-औदारिकाच्छरीरादू वैक्रियं सूक्ष्मद, औदारिकमल्पद्रव्यं स्थूलं शिथिलनिचयम्, वैक्रियं बहुतरद्रव्यं मूक्ष्मघननिचयं चेति, अतः सूक्ष्ममुच्यते // ननु चौदाशरीराणां सूक्ष / सूक्ष्मता- रिकं योजनसहस्रप्रमाणमुत्कर्षान वैक्रियं तु योजनलक्षप्रमाणम् , अतः दर्शनम् कथं मूक्ष्ममिति ? / उच्यते-यद्यपि प्रमाणतस्तदतिमहदू वैक्रियं तथापि सूक्ष्ममेवादृश्यत्वात् इच्छया तु तत्कर्तुर्दश्यत इत्यतो नो दोपः, तथा वैक्रियादाहारक सूक्ष्ममित्यभिसम्बन्धः, सूक्ष्मतरपरिणामपरिणतं बहुतरपुद्गलद्रव्यारब्धमाहारकम् , आहारकात् तेजसं बहुतरद्रव्यमतिमूक्ष्मपरिणामपरिणतं च, तैजसातू कामणमतिबहुकद्रव्यप्रचितमतिसूक्ष्मं च भवति, अतः सूक्ष्मताऽऽपेक्षिकी प्रतिपत्तव्या, न सूक्ष्मनामकर्मोदयजनितेति // 38 // ___ एवं तावत् कारणानां सूक्ष्मात् परं परं सूक्ष्ममभिहितमतिबहुपुद्गलद्रव्यारब्धमपि प्रचयविशेषात् तत् कथमुत्तरोत्तरेषु बहुतरद्रव्यारब्धमिति ? अत आह सूत्रम्-प्रदेशतोऽसङ्ख्येयगुणं प्राक् तैजसात् // 2-39 // भा० तेषां शरीराणां परं परमेव प्रदेशतोऽसङ्ख्येयगुणं भवति प्राक तेजसात् , औदारिकशरीरप्रदेशभ्यो वैक्रियशरीरप्रदेशा असप्रदेशापेक्षया शरीरतारतम्यम् ङ्ख्ययगुणाः, वैक्रियशरीरप्रदेशेभ्य आहारकशरीरप्रदेशा असङ्ख्येयगुणा इति // 39 // 'परिमाणता' इति ग-पाठः। २'मविप्रकृष्टां' इति क-पाटः /
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy