________________ 198 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 टी-तेषां शरीराणामित्यादि भाष्यम् / तेषामित्यौदारिकादीनामनन्तरसूत्रात् परं परमित्येतदनुवर्तते, अभिसम्बध्नाति भाष्यकारः परं परमेव, एवशब्दस्तमेव क्रमनियममवद्योतयति परं परमित्यमुमेव क्रममङ्गीकृत्यासङ्ख्येयगुणता विधीयते नान्यथेति / प्रदेशत इति। प्रवृद्धो देशः प्रदेशः, अनन्ताणुकस्कन्धः प्रदेशोत्राभिधीयते, एवंविधैः प्रदेशैः प्रदेशतः "इतरेभ्योऽपि दृश्यन्ते" इति वचनात् असङ्ख्येयगुणं भवति / एतदुक्तं भवति-औदारिकशरीरग्रहणयोग्यो यः स्कन्धोऽनन्तप्रदेश एकः स यदाऽन्यैरनन्ताणुकैः स्कन्धैरपङ्ख्येयैगुणितो भवति तदा वैक्रियग्रहणयोग्यो जायते, एवं वैक्रियग्रहणयोग्योऽनन्तप्रदेशस्कन्धः, एको यदाऽन्यैरनन्ताणुकस्कन्धैरसङ्ख्येयैरभ्यस्तो भवति तदाऽऽहारकग्रहणयोग्यतामेति / प्राक तैजसादिति मर्यादा दर्शयति, न खलु सर्वेष्वयं क्रमो ग्राह्यः, किन्तु तैजसकामणे विहायायेषु त्रिषु शरीरेश्वेतद् विधानम् / अमुमेवार्थ स्पष्टतरमाचष्टे भाष्येणामुना औदारिकशरीरप्रदेशेभ्यो वैक्रियप्रदेशा असङ्ख्येयगुणाः, औदारिकशरीरयोग्यस्कन्धोऽनन्ताणुकोऽपि सर्वस्तोकः, उत्तरस्कन्धापेक्षयाऽनन्तसङ्ख्यायाचानन्तभेदत्वात्, अत एक औदारिकयोग्यः स्कन्धो यदाऽन्यैरनन्तप्रदेशस्कन्धरसङ्ख्येयैगुणितो भवति तदा वैक्रिययोग्य इति पिण्डार्थः। औदारिकशरीरे प्रदेशाः औदारिकशरीरप्रदेशाः अनन्ताणुकाः स्कन्धा इत्यर्थः / न पुनः प्रदेशाः परमाणवो गृह्यन्तेऽर्थासम्भवात्, वैक्रियशरीरप्रायोग्याः प्रदेशाः स्कन्धा जायन्ते असङ्ख्येयैरनन्तपरमाणुप्रचितस्कन्धैरन्यैर्गुणिताः, औदारिकयोग्या ये स्कन्धास्तेऽत्र गुण्यतया विवक्षिताः / बहुवचनमौदारिकशरीरयोग्यस्कन्धबहुत्वापेक्षं वैक्रियस्कन्धबहुत्वापेक्षं चेति / तथा वैक्रियशरीरप्रदेशेभ्य आहारकशरीरप्रदेशा असङ्ख्येगुणा इति, वैक्रियशरीरयोग्यस्कन्धेभ्यः आहारकशरीरयोग्याः स्कन्धा अनन्ताणुभिरसङ्ख्येयैः स्कन्धैर्गुणिता भवन्ति वैक्रिययोग्याः स्कन्धाः, प्रत्येकमनन्तप्रदेशैरसङ्ख्येयैः स्कन्धेरभ्यस्ताः सन्त आहारकयोग्या जायन्त इति, बहुवचनमत्राप्युभययोग्यस्कन्धबहुत्वापेक्षमिति // 39 // ___ अत्राह-प्राक तैजसादित्युक्तम् / अथ कः पुनस्तैजसकार्मणयोः स्कन्धप्रदेशनियम इति / अत्रोच्यते सूत्रम्-अनन्तगुणे परे // 2-40 // भा०-परे हे शरीरे-तैजसकार्मणे पूर्वतः पूर्वतः प्रदेशार्थतयाऽनन्तगुणे तैजसकार्मणयोः भवतः। आहारकात् तैजसं प्रदेशतोऽनन्तगुणम् / तैजसात् प्रदशमानम् कार्मणमनन्तगुणमिति // 40 // टी-परे हे शरीरे इत्यादि भाष्यम् / परे इत्युक्तेऽपि द्विशब्दोपादानं सप्तम्याशङ्काव्यावृत्त्यर्थम्,द्वित्वमन्यथाऽपि सम्भवतीति प्रतिविशिष्टयप्रदर्शनार्थमाह-तैजसकामणे इति / पूर्वसात पूर्वतः वीप्सया व्याप्तिमादर्शयति-प्रदेशार्थतयेति / अनन्ताणुस्कन्धार्थ