________________ सूत्र 41 ] स्वोपज्ञभाष्य-टोकालङ्कृतम् 199 त्वेनानन्तगुणे भवतः / एतदेव स्फुटीकरोति-आहारकात् तैजसं प्रदेशतोऽनन्तगुणम्, आहारकशरीरयोग्यस्कन्धोऽनन्ताणुकोऽन्यैरनन्तपरमाणुप्रचितस्कन्धैरनन्तैर्गुणितस्तैजसशरीरग्रहणयोग्यो भवति / प्रदेश इति प्रदेशैरनन्ताणुकैरनन्तैः अनन्तगुणमिति च फलमेव निर्दिष्टमाचार्येण, अनन्तो गुणव हुत्वं यस्य तदनन्तगुणम्, अस्माच्च फलनिर्देशात् ज्ञायतेऽनन्तः स्कन्धैगुणितं सदनन्तगुणं भवति, अन्यथा प्रदेशैरनन्तैरिति दुर्लभं स्यात् / एवमसङ्ख्येयगुणमपि वाच्यम्, तथा तैजसात् कार्मणमनन्तगुणमिति तैजसशरीरयोग्यः स्कन्धोऽन्यैरनन्ताणुकैः स्कन्धेर्गुणितः कार्मणशरीरयोग्यो भवति // ननु चार्थे तैजसं कार्मण चान्तरा भाषाप्राणापानमनोयोग्यवर्गणा निर्दिष्टास्ततः क्रमवृद्धः स्कन्धराशिर्मनोग्रहयोग्यकार्मणस्य निर्दिष्टः, इह तु तैजसादनन्तरमेवेत्येतत् कथम् ? उच्यते-न कश्चिद् विशेषः तैजसादारभ्य यावन्मनस्तावत् क्रमवृद्धवान्तरालेऽनन्ता एव स्कन्धा भवन्ति, पुनस्तत्राप्येकाणुकादिप्रक्षेपादनन्ताः कार्मणयोग्यास्तदेवानन्तगुणत्वम् , इह तु पुनने स क्रम आश्रितः, किन्त्वनन्तस्कन्धगुणः स राशिः कार्मणयोग्य आख्यात इति, अतः स एवायं मपीम्रक्षितकुकुटाभोऽथापणविशेषो मा विप्रतिपत्यास्त्वमिति // 40 // अयं चान्यो विशेषोऽन्यशरीरेभ्यस्तयोर्यदुत सूत्रम्--अप्रतिघाते // 2-41 // भा०-एते द्वे शरीरे-तैजसकामणे अत्र लोकान्तात् सर्वत्राप्रतिघाते भवतः // 41 // ___टी-एते द्वे शरीरे इत्यादि भाष्यम् / एते अनन्तरमूत्रप्रस्तुते प्रत्यक्षासन्ने, द्विशब्दोपादानमत्र प्रथमाबहुवचनाशकाव्यावृत्त्यर्थम् / विशरणधर्मत्वाच्छरीरे द्वित्वं विशेषप्रतिपत्त्यर्थम् / तैजसकार्मणे जीवाजीवाधारक्षेत्रं लोकस्तस्यान्तोऽवसायस्तसाल्लोकान्तादन्यत्र लोकान्ते हि प्रतिहन्येते, ते गतिस्थितिहेतुधर्माधर्मद्रव्याभावात् - तदुपग्रहाद् हि जीवानां पुद्गलानां च गतिरुपजायते जलचराणामिव तैजसकार्मणयोरप्रतिघातिता पर जलद्रव्यापेक्षे, अन्यत्र तु सर्वस्मिन् लोके न तयोः प्रतिघातः कचन विद्यते मूर्तत्वेऽपि हि तयोरतिसूक्ष्मत्वात् सर्ववर्त्मसु गतेः प्रतिघातासम्भवः सदाचारमुनिवत्, ते अपि न किञ्चित् प्रतिहतस्नेहगिरिजलधिवलयद्वीपपातालनरकविमानप्रस्तरानपि भिन्दती जातेऽक्षतस्वरूपे वज्रवन्न जातुचित कुण्ठतामश्नुवाते / न खलु लोहपिण्डमाविशन्तस्तेजोऽवयवाः परिस्फुरन्मूर्तयोऽपि कयाचिदुपपत्त्या निवारयितुं पार्यन्ते तद्विध्मापनायाम्भोवयवाश्च समाहृताः, सूक्ष्मत्वादेवमेव च शरीरके राजवल्लभपुरुषवत् सर्वत्राव्याहतप्रवेशनिर्गमे प्रतिपत्तव्ये इति // 41 // 1. पेक्षेत्यन्यत्र ' इति क-ख-पाठः /