________________ 200 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः२ न च ताभ्यां कदाचित् संसारी विरहित इत्यावेदयन्नाह -- सूत्रम्-अनादिसम्बन्धे च // 2-42 // जसकर्मिणयोर. - भा०-ताभ्यां तैजसकार्मणाभ्यामनादिः सम्बन्ध इति नादिः सम्बन्धः // 42 // .टी.-अनादिसम्बन्धे च / आदिः-प्राथम्यम्, अविद्यमान आदिर्यस्यासावनादिः, सम्बन्धन-सम्बन्धः, संयोग इत्यर्थः, अनादिः सम्बन्धो ययोः परस्परेण संसारिभिश्च सह ते अनादिसम्बन्धे शरीरके भवतः सुवर्णधातुपापाणसंयोगवदाकाशपृथिव्याः दिसंयोगवद् वा / चशब्दः सम्बन्धविकल्पार्थः, नैकान्तत एवानादिः सम्बन्धः, किन्नु द्रव्यास्तिकनयावष्टम्भन तयोरतिदीर्घकालप्रवाहादविच्छेदवर्ती सकलभविष्यदवस्थान्तरबीजभूतो विचित्रपरिणामशक्तिप्रचितपुद्गलद्रव्यैराधीयमानप्रचयापचयोऽनादिकपुरुषप्रयत्ननिर्वर्त्यनानारूपकर्मविकाराविच्छेदः सन्तानविशेपस्तदङ्गीकरणेनायमनादिः सम्बन्धः प्रतीयते। आदिमांश्च पर्यायनयवक्तव्यताभ्यन्तरीकृतत्वात् / क्रियत इति कर्म मिथ्यादर्शनाविरतिप्रमादकषाययोगबन्धहेतुसद्भावात् तीव्रमन्दाधुपपत्तेश्च / प्रतिक्षणमयमुपचीयते पुरुषः कपाययोगाद्यास्रवद्वारवर्ती दृढतरैः कर्मणा यैस्तत् कथमनादिः सम्बन्धो निरूपयितुं शक्येतातिसाहसिकैरपि, ज्ञानावरणादिकर्मणां च स्थितिकालनियमादवश्यमपूर्वकर्मोपादेयम् , तचादिमत्स म्बन्धमेवावधूतशकं प्रतिपद्यध्वम् , अतश्चशब्दो द्रव्यपर्यायास्तिकनयद्वयान्तर्वर्तितामापादयति सम्बन्धस्य / / अधुना भाष्यानुसृतौ यत्न आस्थीयते-ताभ्यामित्यादि भाष्यम् / ताभ्यामुक्त. लक्षणाभ्यां तैजसकार्मणशरीरकाभ्यामनादिरकृतकः सन्तत्याऽङ्गीकरणेन संयोगोऽनादेरकृतकस्य जीवस्येति, नहि जीवः केनचिदुत्पादितचैतन्यात्मनेति श्रुतिपथमागमद वचो यो वा मन्येत कृतकमात्मानमुपयोगलक्षणमनादिपारिणामिकमाववर्तिनमपत्रपस्तस्यापि वचनमयुक्ति कमसङ्गतपूर्वापरमिति विद्वद्भिरपकर्ण्यम्, अतोऽनादिस्तदनादित्वात् तैजसकार्मणे अप्यनादिसम्बन्धे विद्वांसः प्रमातुमर्हन्ति, अन्यथा परित्यक्तसकलशरीरकलङ्कस्य मुक्तस्येव केन हेतुना संसारिता स्यादिति ? // 42 // अथैते अनादिसम्बन्धे अपि सति किमशेषसंसारिण एव स्त आहोस्वित् कस्पचिदेवेति ? / अत आह . सूत्रम्-सर्वस्य // 2-43 // भा०-सर्वस्य चैते तैजसकामणे शरीरे संसारिणो जीवस्य भवतः / ___ एके त्वाचार्या नयवादापेक्षं व्याचक्षते / कार्मणमेवैकमनादिसर्वसंसारिणां तेजसकामणवत्ता / / सम्बन्धम् / तेनैवैकेन जीवस्यानादिः सम्बन्धो भवतीति। तेजस तु लब्ध्यपेक्षं भवति / सा च तैजसलब्धिन सर्वस्य, कस्य१. नादिसम्वन्धो जीवस्येत्यनादिसम्ब' इति घ-पाठः। 2 -- रुपकर्ण्य ' इति ख-पाठः /