SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः / ज्यते, यथा प्रकाशकाः कृशानुभास्करादयः प्राकाश्यं वस्त्वन्तराभावविशिष्टमेव प्रकाशयन्ति एवं प्रमाणमपि वस्तुपरिच्छेदहेतुत्वेन व्याप्रियमाणं वस्त्वन्तराभावविशिष्टमेव प्रकाशयति प्रमाणं च यथावस्थित वस्तुस्वभावग्राहि / ततः प्रमाणपरिच्छिन्नेनार्थेन यथाप्रयोजनमर्पणादि व्यवहारः / तस्मात् सच्चासच्चैकमेव वस्तु, स्वरूपार्पणयोत्पादः सन् स्थितिविनाशाभावविशिष्टग्रहणादसन्, एवं स्थितिविनाशावपि वाच्यौ / एवं हि त्रिविधग्रहणं सगर्थितं भवति / तथा स्वात्मापरित्यागार्पणान्नित्यम्, उत्पादव्ययार्पणात् तदेवानित्यम्, स्थित्यादयश्च सङ्ग्रहा देकीभावाद् वस्तु, न स्थितिरहितावुत्पादविनाशी, नाप्युत्पादव्ययशून्या स्थितिः, अतः संसर्ग लक्षणं वस्त्वेकमेव नित्यं चानित्यं च // ननु चोत्पादव्ययध्रौव्ययुक्तं सदिति विस्वभावमेव सत्वेनावधृतम्, भाष्यकारस्तु सच त्रिविधमपीत्येव विवृण्वन्नेकैकस्य सचं प्रतिपादयति, नैप दोषः, अविभक्तेऽपि वस्तुनि स्वभावत्रयाख्यानगन्योन्यापरित्यागद्वारेणैव क्रियते, अन्यथा कथं कथ्येत प्रज्ञापनागोचरः१ / स्थित्यादयो हि परस्परावियोगिनः सर्वदा सदसदात्मका भेदाभेद लक्षणास्तेषु सत्त्वप्रज्ञापना न विरुध्यते, न ह्येकदेशोऽसद्वस्तुनो भवति पटादेस्तन्त्वादिः, अथ नित्यं चेति किमर्थमुच्यते, सद्हणादेव तद्गृहीतेः पुनर्न किश्चित् फलमस्ति सद्रहणेनैव धौव्यांशस्य लक्षितत्वात्, सच्च त्रिविधमपीत्येतावदेवाभिधेयमिति, अत्रोच्यते-सत्यमेतदेवम्, तथाऽप्यर्थविशेषप्रतिपिपादयिषया पुनर्नित्यग्रहणं, स विशेपो भाव्यते यदि धौव्यांश एव नित्यः स्यात् न समस्तं वस्तु तत उत्पादव्ययावप्यनित्यो न वस्तु सकलम् ,,एवं चान्याधार नित्यत्वमन्याधारं चानित्यत्वं स्याद् अनिष्टं चैतद् व्यधिकरणत्वात्, यथा प्रवचनबाह्यानां नित्यं व्योमाऽनित्यो घट इति, अत्राप्येवं स्यादन्यन्नित्यमन्यचानित्यम्, इप्यते तु यदेव नित्यं तदेवानित्यमिति, तत्राऽमुना पुनर्नित्यग्रहणेन निरंशं वस्त्वर्णत एतद्विपक्षेण चानित्यं समस्तमेव वस्तूच्यते निर्विभागत्यात्, एवं हि तत् प्रज्ञाप्यते केवलं श्रोतृबुद्धिव्युत्पत्तये स्थित्यंशोऽयमिमावुत्पादव्ययांशाविति बुद्धया विभज्यते, न तु परमार्थतोऽस्ति विभाग इत्येवमैकाधिकरण्यम् / यथाऽऽह " अभिन्नांश मतं वस्तु, तथोभयमयात्मकम् / प्रतिपत्तेरुपायेन, नयभेदेन कथ्यते // 1 // " __यत् तूक्तं नित्यता ह्युत्पादव्ययौ विरुणद्व्युत्पादव्ययौ च नित्यतां विरुन्धाते, तत् प्रपश्यापोद्यते, कः पुनर्विरोधशब्दार्थः / किं ययोरेकवावस्थानं न दृश्यते तो विरुद्धावथ यावेकत्र कालान्तरं स्थितौ पश्चादन्यतरविनाश उभयविनाशो वा तो विरुद्धाविति ? किश्चातः, यदि प्राच्यः पक्षः कदाचिदपि यावेकर न दृष्टावेवं सति कध्यघातकभावलक्षणस्तावदहिनकुलयोरग्न्युदकयोर्वा न विरोधः, यतः संयोगे सत्येककालयोरहिनकुलयोरमिजलयोर्वा स्थितयोर्वि 1. सस्वासस्वैकमेव ' इति क-ख-पाठः। 2 . सर्वात्मका ' इति ग-पाठः /
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy