________________ 430 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 5 धानप्रत्ययौ यन्निमित्तौ तत्कारणमस्ति कालद्रव्यं, कालापेक्षे परत्वापरत्वे तन्निमित्ते च प्रत्ययाभिधाने प्रादुर्भवतः परमपरमिति, तथा युगपदयुगपदिति यनिमित्ते प्रत्ययाभिधाने स कालः, निमित्त विशेपे हि प्रत्ययविशेषः सिद्धयत्यभिधानविशेषश्च, कालद्रव्यस्य / पार्थक्यम् शुक्लकृष्णादिवत् / दृष्टश्चायं दिग्देशकारणकार्यकर्तृव्यतिरेकेण प्रत्ययो युगपदयुगपदिति, स चायं नानिमित्तो भवितुमर्हति, यच्च निमित्त स कालः / इदमुक्तं भवति-तुल्यकार्येषु कर्तृषु साधारणरूरीकेषु च कार्येषु पृथक पृथर व्यवस्थितेषु कृतं क्रियते कर्तव्यमित्येतस्मिन् निरूढे कर्तृकर्तव्यभेदे च सति युगपदयुगपञ्च कृतं क्रियते कर्तव्यमित्येतमवधिं कृत्वाऽभिधीयते, यतः सोऽर्थोऽन्यः कालसंज्ञः, कुतादीनां योगपद्यायोगपद्येऽन्यनिमित्तासम्भवात् , न चानिमित्तमेतदभिधानम् , तथा समानकार्यावस्थानलक्षणेषु कर्मसु कर्तरि च व्यवस्थिते यत एतद् भवति चिरं क्षिप्रमिति सोऽन्योऽर्थः कालः, न चाकस्मादयं प्रत्ययः, तस्मात् यत्सद्भावे भवत्येष प्रत्ययो यदभावे च न भवति स कालः / तुशब्दो विशेपपरिग्रहार्थः, स च विशेपो भेदप्रधानो नयः, तद्धलेन कालोऽपीति, अपिशब्दश्चशब्दार्थः, कालश्च द्रव्यान्तरमागमे निरूपितमिति कथयन्ति-"कति णं भंते ! दव्या पण्णता? गोयमा !छ दव्या पण्णत्ता, तं जहा-धम्मत्थिकाए, अधम्मत्थिकाए, आगासत्थिकाए, पुग्गलत्थिकाए, जीवत्थिकाए, अद्धासमए"। विनिवृत्तौ वा तुशब्दः, कस्य व्यावर्तकः? धर्मा स्तिकायादिपञ्चकाव्यतिरिक्तकालपरिणतिवादिनो द्रव्यनयस्येति, एवं कालोऽस्ति, स चापेक्षाकारणम् , तथा ह्यःश्वोऽद्यादीनि कालवचनानि स्वरूपविज्ञानव्यतिरिक्तमुख्यवायार्थनिवन्धनानि असमासपदत्वाच्छुदैकपदत्वाद् रूपशब्दवत् , तथा ह्यआदीनि कालवचनानि यथार्थानि यथाभ्युपगममाप्तैस्तथाभिधीयमानत्वात् , प्रमाणावगम्यः प्रमेयोऽर्थ इत्येवंविधवचनवत् / एवं च सति तद्भावपरिणामलक्षणसूत्रसमुपनीतैकवाक्यभावस्योत्पादव्ययधौव्ययुक्तं सद्(मू०२९) गुणपर्यायवद् द्रव्यम् (सू० ३७)इत्येतल्लक्षणसूत्रद्वयस्याशेषपदार्थव्यापित्वेन कालस्यापि सत्त्वद्रव्यत्वपरिणामित्वधर्मसद्भावः सिद्धः // ननु च कालो नामाविभागी परमनिरुद्धः समय एवैकः समुच्छिन्नपूर्वापरकोटिः, अत एव चास्तिकाय इति नेष्टः, प्रदेशरहितत्वात् , तस्य च प्रागभावप्रध्वंसाभावावस्थे असत्यावेव वत्स्येद्वृत्तशब्दाभिधेये, ततश्चोत्पादव्ययध्रौव्ययोगिता कुतः? कुतो वा गुणपर्यायवद्रव्यता कालस्येति / अत्रोच्यते--जिनवचनमनेकनयशतविभवृत्तिव्यनुस्यूतस ___कलवस्तुभूमिव्यापि प्रधानोपसर्जनीकृतेतरेतररूपद्रव्यपर्यायोभयनयावकाले उत्पादादिमत्ता लम्बि न कचिदेकान्तेन प्रतिष्ठते, प्रथितमेवैतत् , यतः योऽपि ह्यसाव विभागः परमनिरुद्धः समय एको निष्प्रदेशः सोऽपि द्रव्यपर्यायावबद्धवृत्तिरेवेति, द्रव्यार्थरूपेण प्रतिपर्यायमुत्पादव्ययधर्माऽपि स्वरूपानन्यभूतक्रमाक्रमभाव्यना 1 कति भदन्त ! द्रव्याणि प्रज्ञप्तानि ? गौतम ! षड् द्रव्याणि प्रज्ञप्तानि, तद्यथा--धर्मास्तिकायः, जीवास्तिकायः आकाशास्तिकायः, पुद्गलास्तिकायः, जीवास्तिकायः, अद्धासमयः।