SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ 362 तत्त्वार्थाधिगमसूत्रम् [अगायः 5 धश्चतुर्भिः प्रक्षिप्तत्रिंशत्प्रदेशमिदम्, विषमप्रतरवृत्तं तु जघन्येन पञ्चप्रदेशमिदम्, एतदेव मध्यगेहे प्रदेशद्वयक्षेपादुपैर्यधश्च विषमघनवृत्तं सप्तप्रदेशमिति, उत्कर्षणानन्तप्रदेशमसङ्ख्येयप्रदेशावगाढम्, अधुना व्यत्रं द्विधा युग्मायुग्मभेदात्, युग्मं द्विधा प्रतरघनभेदात्, युग्मप्रतरत्र्यसं जघन्येन षट्प्रदेशमिदम्, उत्कर्षणानन्तप्रदेशम् , युग्मघनत्र्यसं जघन्येन चतुःप्रदेशम् , उत्कर्षेणानन्तप्रदेशम् / अयुग्ममपि द्विधा प्रतरघनभेदात, ओजप्रतरत्र्यसं जघन्येन त्रिप्रदेश, उत्कर्पणानन्तप्रदेशम्, धनत्र्यसं जघन्येन पञ्चत्रिंशत्प्रदेशम्, अत्रैव चान्त्यान्त्यप्रदेशानुज्झित्वा दश षट् त्रय एकश्च क्षेप्यः, उत्कर्षणानन्तप्रदेशम्, एतदेव प्रदेशचतुरसमपि द्विधा युग्मायुग्मभेदात्, युग्मं द्विधा प्रतरघनभेदात्, युग्मप्रतरचतुर सं जघन्येन चतुःप्रदेशम्, उत्कर्षणानन्तप्रदेशम्, एतदेव प्रदेशचतुष्टयक्षेपाद् युग्मधनचतुरस्रं भवत्यष्टप्रदेशम् , उत्कर्षणानन्तप्रदेशम्, ओजचतुरस्रमपि द्विधा प्रतरघनभेदाद, ओजप्रत वृत्तादिसंस्थानानां रचतुरस्रं जघन्येन नवेप्रदेशम्, इदमुत्कर्षणानन्तप्रदेशम्, एतदेवौजघनसद्भेदपूर्विका व्याख्या चतुरस्रं भवत्युपर्यधश्च नवभिनेवभिः प्रक्षिप्तैः सप्तविंशतिप्रदेशम, उत्क पेणानन्तप्रदेशम्, आयतमपि द्विधा युग्मायुग्मभेदात, युग्मं द्विधा श्रेणिप्रतरभेदात्, तत्र युग्मश्रेण्यायतं जघन्येन द्विप्रदेशमें , उत्कर्षेणानन्तप्रदेशम्, युग्मं प्रतरायतं जघन्येन षट्प्रदेश, उत्कर्पणानन्तप्रदेशम्, एतदेव च युग्मघनायतं भवति यथान्यासमुपरिषट्प्रदेशक्षेपाजघन्येन द्वादशप्रदेशम्, उत्कर्षणानन्तप्रदेशम्, अयुग्मायतमपि द्विधा श्रेणिप्रतरभेदात्, तत्रौजश्रेण्यायतं जघन्येन त्रिप्रदेश, उत्कर्षेणानन्तप्रदेशम्, ओजप्रतरायतं जघन्येन पैञ्चदशप्रदेशम्, उत्कर्षेणानन्तप्रदेशमिदम्, एतदेवौजघनायतं भवत्युपर्यधश्च पञ्चदशभिः क्षिप्तैः जघन्येन पञ्चचत्वारिंशत्प्रदेशम्, उत्कर्षेणानन्तप्रदेशम्, परिमण्डलं द्विधा प्रतरघनभेदात, तत्र प्रतरपरिमण्डलं जघन्येन विंशतिप्रदेशमिदम्, एतदेव धनपरिमण्डलं भवत्यन्यविशतिसंख्यः प्रदेशैर्निहितैर्जघन्येन चत्वारिंशत्प्रदेशम्, उत्कर्षणानन्तप्रदेशम् // अत्र च भाष्ये दीर्वहस्वग्रहणादायतमेव परिगृहीतमादिशब्दाच्छेपाणि, उक्तेन प्रकारेण वृत्तादिना निरूपयितुं यन्न शक्यं तदनित्थं तद्भावोऽनित्थन्त्वं तत्पर्यन्तमनेकधा संस्थानमिति // __ भा०-भेदः पञ्चविधः-औत्कारिकः चौर्णिकः खण्डः प्रतरः अनुतट इति // टी-भेदः पञ्चविध इत्यादि / एकत्वद्रव्यपरिणतिविश्लेषो भेदः, स च पुद्गलपरि 1080 / 2 मध्याणोऽपर्यधश्च एकैकाणुन्यासात् / 3 चतुर्वपि वृत्तभेदेषु समन्वाय्येतत् / 4 400 / 5 40 अत्र यस्य कस्यचिदुपरि म्यस्योऽन्योऽणुः। 6 / . 8888deg / - 881 8331 00000 00 00000 1000 / 12 000 / 1300000 / 14 व्यवहारानुसामुपदेशात् न कतिपयपरमाणुजन्यसंस्थानोपदेशः, अनित्थं तु संस्थानं दीर्घादिना व्यपदेष्टुं यमाई नाधिकारच जीवसंस्थानेरपि /
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy