________________ 126 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 ____टी-किश्चान्यदित्यनेनोपपत्त्यन्तरमप्यस्ति विप्रतिपत्तिदोषस्य परिहारार्थमिति दर्शयति-यथा मतिश्रुतावधिमनःपर्यायकेवलज्ञानैः पञ्चभिर्धर्माधर्माकाशजीवपुद्गलानामस्तिकायानामिति, अस्तीति-त्रैकालिकसत्तासंसूचको निपातः, अभूवन् भवन्ति भविष्यन्ति च यतोऽतः सूच्यन्तेऽस्तीत्यनेन, काय इत्यनेन प्रदेशावयवबहुत्वमाचष्टे, वक्ष्यति पञ्चमे असङ्ख्येयाः प्रदेशाः (अ०५,सू०७) इत्यादि, अतोऽस्ति च ते कायाचेति, तेषामन्यतमः अर्थ इति धर्मादिः, पृथक पृथगुपलभ्यत इति, अन्यथा चान्यथा च परिच्छिद्यत इत्यर्थः // ननु चैकस्वभावस्य धमोदेरस्तिकायस्य मत्यादिज्ञानरयुक्तोऽन्यथात्वेन परिच्छेद इत्येवं चोदिते आह-पर्यायविशुद्धीत्यादि / पयोया-भेदाः-विज्ञानस्वभावा मत्यादिरूपाः तेषां विशुद्धिः-स्वच्छता स्वावरणापगमजनिता तस्याः पर्यायविशुद्धेविशेषो-भेदस्तसात पर्यायविशुद्धिविशेषाद उत्कर्षेण-प्रकर्षेण तैर्मत्यादिभिस्तेषामस्तिकायानां पृथक पृथगुपलब्धिर्भवति, तद्यथा मतिज्ञानी मनुष्यपर्यायं वर्तमानं चक्षुरादिनेन्द्रियेण साक्षात परिच्छिनत्ति, तमेव च श्रुतज्ञानी आगमानुमानस्वभावेन, तमेवावधिज्ञानी अतीन्द्रियेण ज्ञानेन, तमेव मनःपर्यायज्ञानी तस्य मनुष्यपर्यायस्य यः प्रश्ने प्रवर्तते तद्गतानि मनोद्रव्याणि दृष्टया अनुमानेनैवतं मनुष्यपर्यायमवच्छिनत्ति, केवलज्ञानी पुनरत्यन्तविशुद्धेन केवलेनावबुध्यते / न चैता मत्यादिका विप्रतिपत्तयः-विरुद्धाः प्रतिपत्तयः, स्वसामर्थेन विषयपरिच्छेदात् , तद्वन्नयवादा इति किं नाश्रीयते / अथवा पर्यायविशुद्धिविशेषादुत्कर्षेणेत्यन्यथा वर्ण्यते, पर्यायाणां-क्रमभुवां मनुष्यादीनां जीवास्तिकायादिसम्बन्धिनां मत्यादिभिर्ज्ञानैः पृथक् पृथगुपलब्धिर्भवति, कथं ? प्रकर्पण, कस्मादिति चेत् ? उच्यते-विशुद्धिविशेषात् ज्ञानादीनां मत्यादीनां, यतो मतिज्ञानी मनुष्यादेर्जीवस्य काँश्चिदेव पर्यायान् परिच्छिनत्ति ततो बहुतरांश्च श्रुतज्ञानी जानीते, यतोऽभिहितं-" संखातीतेऽवि भवे" ( आव० नि० ) इन्यादि / श्रुतज्ञानिनोऽपि सकाशाद बहुतरानवधिज्ञानी पर्यवस्यति, विशुद्धिप्रकषोत् , ततो मनःपयोयज्ञानी, ततश्च सर्वात्मना केवलीति / न चैवमनेकधा परिच्छेदप्रवृत्ता मत्यादिका ज्ञानशक्तयो विप्रतिपत्तिव्यपदेशमनुवते,तद्वन्नयवादा इति किं नाभ्युपेयते?॥ उपपत्त्यन्तरमाह . भा०-यथा वा प्रत्यक्षानुमानोपमानाप्तवचनैः प्रमाणैरेप्रमाणार्थवत् तन्त्रा कोऽर्थः प्रमीयते. स्वविषयनियमात्, न च ता विप्रतिपत्तया भवन्ति, तद्वन्नयवादा इति // टी०-यथा वेत्यादिना / यथा वा गिरिगुहावस्थितोऽग्निरेकोऽनेकेन प्रत्यक्षादिना परिच्छिद्यते प्रमाणेन, सन्निकृष्टवर्तिना प्रत्यक्षेण, विप्रकृष्टवर्तिना लिङ्गज्ञानेन, अपरेणोपमया कनकपुञ्जपिञ्जरप्रकाशोऽनिरिति, अन्यः आप्तोपदेशादध्यवस्यत्यत्र वनगहनेऽग्निरिति, अत एवं प्रत्यक्षादिभिः प्रमाणैरेकोऽर्थः प्रमीयते, कुतः ? स्वविषयनियमात्, स्वः-आ 1 सल्यातीतानपि भवान् / न्तरता न