________________ तत्वार्थाधिगमसूत्रम् [अध्याय: 5 ति-नैषां गुणाः सन्तीति निर्गुणाः / एषां ज्ञानादिशुक्लादीनां गुणानां नान्ये गुणाः केचन सन्तीति निर्गुणाः, द्रव्याद् व्यतिरेके सत्येतदुपपद्यते, गुणगुणिनोर्भेद इत्यर्थः / तत् तु ना लोकान्तेन / इतिशब्दोजाव्यतिरेकनयवाक्योपन्यासार्थः / नैपां गुणाः सन्तीति भेदनयप्रधानं वचनम् / न च भेदपरमार्थ एव जैनः कृतान्तः, सकलस्य वस्तुनो भेदाभेदरूपत्वात् / यदा तु द्रव्यमेव तथा परिणतं ज्ञानाद्यात्मना शुक्लाद्यात्मना वा तदा द्रव्यस्य तादात्म्याद् गुणानां स्वरूपं भिन्नं नास्त्येवेति, एवं च शुद्धद्रव्यास्तिकादेशादनन्यत्वमेव नैर्गुण्यं, पर्याय विवक्षायां तु स्याद् गुणप्रधानत्वात् पर्यायनयस्येति, कदाचिदाशङ्केत परः सतां गुणानां निर्गुणत्वं चिन्त्यतेऽत्यन्तशद्रव्यास्तिकपक्षे गुणा एव न सन्ति कुतोऽनन्पत्वमिति ? / उच्यते-न सन्तीत्येतदयुक्तम् , सन्ति गुणाः, किन्तु द्रव्यादव्यतिरिच्यमानस्वरूपाः, तेद् यदि द्रव्यं शुक्लाकारेण परिणतं भवति, तदा कृष्णाकारपरिणामो नास्तीति स्फुटं निर्गुणत्वमिति / / 40 // / भा०-अत्राह-उक्तं (सू० 36 ) भवता-बन्धे समाधिको पारिणामिका. विति / तत्र का परिणाम इति / अत्रोच्यते टी-अत्राह-उक्तं भवतेत्यादिना सम्बन्धमाचष्टे / भवतेदमुक्तं (सू० ३६)-बन्धे समाधिको पारिणामिकाविति, समः समगुणस्य परिणामं विधत्ते, हीनगुणस्याधिकगुणः परिणाममापादयतीति, तथा नामादिसूत्र(१-५)भाष्य इदमभिहितम्-भावतो द्रव्याणि धर्मादीनि सगुणपर्यायाणि प्राप्तिलक्षणानि वक्ष्यन्ते, प्राप्तिश्च परिणामः, स च सकलद्रव्यविषय एव पिपृ. च्छिषतः, तत्र सूत्रे भाष्ये वाकः परिणामशब्दवाच्योऽर्थो यमङ्गीकृत्येदमुक्तम्-समगुणोऽधिकगुणो वा परिणाममापादयतीति, एवं मन्यते किमर्थान्तरभूतं परिणामं जनयन्त्याहोस्वित् त एव स्वरूपमजहतो द्रव्यविशेषा वैशिष्टयं प्रतिपद्यमानास्तथा भवन्तीति सन्देहभाजा पृष्टे भाध्यकृदाह-अत्रोच्यत इति / किमुच्यते ? यत् पृष्टम् / किश्च पृष्टम् ? परिणामसद्भावः पञ्चविधस्य पविधस्य वा द्रव्यस्य धर्मादेः / सूत्रम्-तद्भावः परिणामः // 5-41 // टी-तस्य भावस्तद्भावः, तस्येति द्रव्यपदकस्याभिसम्बन्धः, तदेव हि धर्मादिद्रव्यं तेन तेनाकारेण भवति, गतिस्थित्यवगाहशरीरादिज्ञानादिवृत्तसमयादिना, भूतिर्भवनमात्मलाभो भावः परिणामः / तस्येति कलक्षणा षष्ठी, भवतेरकर्मकत्वात् / तान्येव हि द्रव्याणि तथा भवन्ति, न कूटस्थान्यवतिष्ठन्ते, न सर्वथोत्पद्यन्ते, नापि सर्वथोच्छिद्यन्ते, तस्मात् सामान्यरूपः परिणामोऽनुवृत्तिरूपत्वात् , अनुवर्तते हि सर्वत्र गत्यादिषु धर्मादिद्रव्यं स्वरूपमजहन , तथाविधधर्मेद्रव्यादीनां समानभावः सामान्यम् , कर्तृषष्ठया द्रव्यादय एव समाना भवन्तीति सामान्यमेव, तद्भावलक्षणः परिणामः, इत्येतदेव भाष्येण प्रकाशयति परिणामस्वरूपम् / / 1' तयदा' इति क-पाठः /