________________ सूत्र 40] स्वोपज्ञभाष्य-टीकालङ्कृतम् 435 प्रतिपादितं भवता-गुणपर्यायपरिणामि द्रव्यम् , तत्र के गुणा यैस्तद्रव्यं गुणवदिति दिश्यते ? गुणग्रहणाच पर्याया गृहीता एवेत्यतो न भेदेन प्रश्नः, प्राक् च प्रतिपादितमेव गुणाः पर्याया इति चैकमित्युक्ते आचार्य आह-अत्रोच्यत इति / गुणस्वरूपमभिधीयते, यादृशा द्रव्यगुणास्तादृशाः प्रतिपाद्यन्त इति सङ्गिरते गुरुः // . सूत्रम्-द्रव्याश्रया निर्गुणा गुणाः // 5-40 // टी-स्थित्यंशो द्रव्यं स आश्रयो येषां परिणामि कारणं परिणामविशेषाणां गुणाना ते द्रव्याश्रयाः, परिणामिपरिणामलक्षण आश्रयाश्रयिभावो नाधाराधेयलक्षणः, कुण्डबदरादिवत् / न च समवायलक्षणः संबन्धो युज्यते द्रव्यगुणानामनुपपत्तेः / अस्तु तावद् द्रव्यगुणानां समवायलक्षणः संबन्धः / समवायस्य गुणानां च यः सम्बन्धः स किं समवायोऽथ सम्बन्धान्तरम् 1 / यदि समवायः, तस्य तेषां च किमभिधानः सम्बन्ध इति / समवायश्चेत् , अनवस्था, सम्बन्धान्तरमिति चेत् , आगमविरोधः स्पष्टतरमुच्यते, समवायाख्यः सम्बन्धः समवायिनोयेदि वर्तते, ततः संयोगवृत्त्या समवायवृत्त्या वा वर्तेत ? संयोगवृत्त्या तावन्न वतेते, कुतः 1 अद्रव्यत्वाद्, द्रव्यविपयो हि संयोग इष्यते, न पुनद्रव्यगुणविषयः / अथ समवायवृत्त्या वर्तते तत्र समवायस्ततो यद्यन्यसमवायवृत्त्या सोऽपि वर्तते ततोऽनवस्थोराहणीया // एवमुक्ते वार्तिककारेणोक्तं-समवायो न कचिद् वर्तत इति ब्रूमः, अनाश्रित एवासौ स्वतन्त्रः सम्बन्धो भवतीत्येतदप्ययुक्तम् / यदि द्रव्यगुणयोनोश्रितः कयाचिद् वृत्या न तर्हि द्रव्यं गुणैः सम्बद्धं तेन समवायाख्येन सम्बन्धेनानाश्रितत्वाद् द्रव्यगुणयोर्घटपटादिवत्, घटपटयोर्हि परस्परेण नास्ति समवायलक्षणः सम्बन्धः, तमाद् द्रव्यं परिणमते, गुणपर्यायाः परिणामविशेषाः, ते च गुणा निर्गुणाः / नहि शुक्लघटकपालादीनां गुणपर्यायाणामन्ये गुणपर्यायाः सन्ति, द्रव्यस्य परिणामिनः शुक्लादिपरिणामो घटकपालसंस्थानादिश्च परिणामः, न पुनस्तस्यैव शुक्लादेरन्ये शुक्लादयः कुम्भादिसंस्थानस्य वाऽन्ये संस्थानादयस्तत्परिणामा विद्यन्ते, इत्यतो निर्गुणाः / एनमेवार्थ भाष्येण स्फुटयति भा०-द्रव्यमेषामाश्रय इति द्रव्याश्रयाः, नैषा गुणाः सन्तीति निर्गुणाः४०॥ टी-द्रव्यमेषामाश्रय इत्यादि भाष्यम् / द्रव्यं भव्यं योग्यं युगपदयुगपद्भाविन्याः गुणपर्यायपरिणतेः स्थितिः सामान्यमेषामुत्पादव्ययलक्षणानां ज्ञानादिशुक्लादिघटकशकलादीनामाश्रयः, परिणाम्यर्थो द्रव्यं, तद्धि ज्ञानशुक्लादिघटकादितया परिणमते, भूयस्तेनाकारेण विनिवर्तते, द्रव्यतया व्यवतिष्ठते, तदेपामुपन्न इति द्रव्याश्रयाः / इतिशब्द एक्शब्दार्थे / एवशब्दस्त्ववधारयति, परिणामिपरिणामलक्षण एवाश्रयाश्रयिभावो न प्रकारान्तरेण, परिणामिपरिणामयोश्च द्रव्यपर्यायनयद्वयापेक्षयैकत्वान्यत्वभजनाविधिरुद्वाह्य इति / तं भजनाविधिमुपन्यस्य 1' णामोऽतस्तस्यैव ' इति क-ख-पाठः /