________________ सूत्रं 19 ] . स्वीपज्ञभाष्य-टीकालङ्कृतम् 167 मकर्म च गतिजात्यादिनामकर्म तेन जनिता-निर्वर्तिता, मनुष्यगतिनामोदयान्मनुष्यस्तथा पञ्चेन्द्रियजातिनामोदयात् पश्चेन्द्रिय इत्यतो मनुष्यत्वपश्चेन्द्रियत्वादिलामे प्रतिस्वं तदाचरणकर्मक्षयोपशमो निर्वय॑ते, तस्य क्षयोपशमस्य गतिजातिप्रभृतिनामकर्मकारणत्वानिर्दिघमाचार्येण / आदिग्रहणेन यत् तदत्र नान्तरीयकं शरीरादिक्षयोपशमलब्धेर्नामान्तःपाति तन् सकलमादीयते / अपरे त्वायुष्कमपि तदाश्रयत्वात् कारणमाचक्षते क्षयोपशमस्य, एवं विदूरवर्ति कारणमपदिश्याधुना प्रत्यासन्नतरकारणान्तरमाविष्करोति-तदावरणीयकर्मक्षयोपशमजनिता चेति / तस्याः खलु रूपादिग्रहणपरिणतेरावरणीयमावारकमाच्छादकं, बाहुलकात् कर्तरि व्युत्पत्तिः, तदावरणीयं च तत् कर्म च तदावरणीयकर्म मतिज्ञानदर्शनावरणकर्मेत्यर्थः,तस्योभयस्य क्षयोपशमोऽभिहितलक्षणस्तज्जनिताच तनिष्पादिता चेत्यर्थः।चशब्दः पूर्वकं कारणं समुचिनोति // ननु च क्षयोपशम एव लब्धिरुक्ता तेन जनितान्या का भवेलब्धिः? / उच्यते-मतिज्ञानदर्शनावरणक्षयोपशमावस्थानिवृत्तौ यो ज्ञानसद्भावः क्षायोपशमिकः सोऽत्र लब्धिरुच्यते, कथं कृत्वोक्तं प्राक् क्षयोपशमो लब्धिरिति कारणे कार्योपचारमालम्ब्य नवलोदकं पादरोगवदित्यभिहितमतो न दोपाय / अन्ये पुनराहुः-अन्तरायकर्मक्षयोपशमापेक्षा इन्द्रियविपयोपभोगज्ञानशक्तिर्लब्धिरुच्यते / पुनः प्रत्यासन्नतमकारणनिर्दिदिक्षया माष्यकृत् प्रतनुते ग्रन्थम्-इन्द्रियाश्रयकर्मोदयनिवृत्ता च जीवस्य भवतीति / इन्द्रिपाण्याश्रयोऽवकाशो येषां कर्मणां तानीन्द्रियाश्रयाणि कर्माणि यावन्ति कानिचिन्निर्माणाझोपाङ्गादीनि येविना तानि न निष्पद्यन्ते तदुदयेन-तद्विपाकेन निवृत्ता-जनितात्मनो लब्धिरुद्भवति, स्वच्छे हि दर्पणतले प्रतिविम्बोदयो भवति, न मलीमसे, तथा निर्माणाङ्गोपाङ्गादिभिरत्यन्तविमलतद्योग्यपुद्गलद्रव्यनिर्मापितानीन्द्रियाणि तस्याः क्षयोपशमलव्धेरतुलं बलमुपयच्छन्ति, कारणतां विभ्रतीति / सैपा लब्धिः कारणत्रयापेक्षा पञ्चप्रकारा भवति / तद्यथा-स्पर्शनेन्द्रियलब्धिरित्यादि भाष्यम् / यथा तत् पञ्चविधत्वं तस्यास्तथा दर्श्यतेस्पृष्टिः-स्पर्शनं, स्पर्शनं च तदिन्द्रियं चेति स्पर्शनेन्द्रियम् , एतदेव लब्धिः स्पर्शनेन्द्रियलब्धिः शीतोष्णादिस्पर्शपरिज्ञानसामर्थ्यमनभिव्यक्तमुपयोगात्मनेतियावत् / एवं जिहेन्द्रियादिलब्धयोऽपि वाच्याः / इतिशब्दो लब्धेरियत्तामावेदयति // 18 // . उक्ता लब्धिः, अधुनोपयोग उच्यते-यदि लब्धिनिर्वृत्युपकरणक्रमेणोपयोगस्ततोऽतीन्द्रियोपयोगाभावो निवृत्त्याद्यपेक्षाभावात् / एतदुक्तं भवति-अवध्यादीनामतीन्द्रियत्वादत्यन्ताभाव एव विशेषो वाच्यः ? / उच्यते-न खुल सर्व उपयोगो लब्धिनिर्वृत्त्युपरकरणेन्द्रियकृतः, किं तर्हि स एवैकस्त्रितयनिमित्त इत्यत आह सूत्र-उपयोगः स्पर्शादिषु // 2-19 // भा०-स्पर्शादिषु मतिज्ञानोपयोग इत्यर्थः / उक्तमेतदुपयोगो लक्षणम् (अ० 2, मू०८)। उपयोगः प्रणिधानम् / आयोगस्तद्भावः परिणाम इत्यर्थः / एषां च १'चायुष्कम् ' इति ख-पाठः /