________________ 168 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 सत्यां निवृत्तावुपकरणोपयोगी भवतः, सत्यां च लब्धौ निवृत्त्युपकरणोपयोगा भवन्ति / निर्वृत्त्यादीनामेकतराभावेऽपि विषयालोचनं न भवति // 19 // टी०-उपयोगः स्पर्शादिषु / स्पर्शरसगन्धवर्णशब्देषु ग्रहणरूपो व्यापार उपयोगो गृह्यते स्पर्शनेन्द्रियादिनिमित्तो नावध्याधुपयोगः / अमुमेवार्थ स्पष्टयन भाष्यकृदाहस्पर्शादिषु मतिज्ञानोपयोग इत्यर्थः / स्पर्शादिविषयो मतिज्ञानव्यापारः प्रतिनियतविषयानुभवनमुपलम्भनमिति, अनेन शेषज्ञानव्युदासमादर्शयति मतिज्ञानोपयोग एव लब्धिनिर्वृत्त्युपकरणापेक्षः प्रवर्तते न शेष इति / अत्रोपयोगसामान्य त्यपहुतावधानथोदयति-स्पर्शादिविषयो य उपयोगपरिसमाप्तिव्यापार इत्युक्तम् / एतच्च परमाणुद्वयणुकादिष्वपि दृष्टम् , परमाणुरपि हि सर्वात्मनोपयुज्यते द्वयणुकादिस्कन्धपरिणामे, ततश्च सोऽप्युपयोगलक्षणं प्राप्नोतीत्यत आह भाष्यकारः-उक्तमेतदुपयोगो लक्षणमिति / अथवा भाष्यकारः स्वयमेवोपयोगविशेषव्याख्यामातितनिपुराह-उक्तमेतदित्यादि / अभिहितमेतदुपयोगश्चैतन्यपरिणामो जीवस्य वैशेषिकं लक्षणं कः परमाण्वादिष्वा प्रसङ्गोत्यन्तासम्बन्ध एव / तमेवोपयोगं पर्यायतः कथयति चैतन्यलक्षणं विशेषव्याख्यानदर्शनद्वारेण 1. उपयोग इत्यादि / उपयोगस्तु द्विविधा चेतना-संविज्ञानलक्षणा उपयोगेन्द्रियस्व. " म" अनुभवनलक्षणा च, तत्र घटाद्युपलब्धिः संविज्ञानलक्षणा, सुखदुःखादिसंवेदनानुभवनलक्षणा एतदुभयमुपयोगग्रहणाद् गृह्यते / प्रणिधानमवहितमनस्कत्वम्, एतदुत्कीर्तयति स्पष्टो हि मतिज्ञानोपयोगो मानसोपयोगावश्यम्भावी द्रव्येन्द्रियाद्यपेक्षश्व नावध्याधुपयोगस्तथेति आयोग इति / स्वविषयमर्यादया स्पर्शादिभेदनि सो ज्ञानोदयः स्पर्शनेन्द्रियादिजन्माभिधीयते तद्भाव इति / उपयोगलाञ्छनो जन्तुस्तच्छब्देनामृश्यते तस्य भावः स्पर्शनादिद्वारजन्मज्ञानमात्मनो भूतिरुद्भव इतियावत् ; परिणामोऽप्यात्मन एव तद्भावलक्षणो नार्थान्तरप्रादुर्भावलक्षणः, स्पर्शनादिनिमित्तज्ञानस्यात्मपरिणतिरूपत्यादित्यर्थः // सम्प्रति प्रवृत्तौ क्रमनियममापादयन्नाह-एषामित्यादि भाष्यम् / एषामिति / ___ व्याख्यातस्वरूपाणां निर्वृत्त्युपकरणलब्ध्युपयोगेन्द्रियाणामयं प्रवृत्तिनिवृत्त्यादाना क्रमः क्रमो यदत निवृत्तिः प्राक तस्यां सत्यामुपकरणमुपयोगश्च भवति निर्वृत्त्याश्रयत्वादुपकरणस्य तद्द्वारजन्मत्वाञ्चोपयोगस्य। एतच निवृत्यादिवयं लब्धीन्द्रियपूर्वकं दर्शयति-श्रोत्रादिक्षयोपशमलब्धौ सत्यां निर्वृत्तिः शष्कुल्यादिका भवति, यस्य तु लब्धिर्नास्त्येवंप्रकारा न खलु तस्य प्राणिनः शष्कुल्यादयोऽव्यवा निवर्तन्ते तस्मालब्ध्यादयश्चत्वारोऽपि समुदिताः शब्दादिविषयपरिच्छेदमापादयन्त इन्द्रियव्यपदेशमश्नुवते / एकेनाप्यवयवेन विकलमिन्द्रियं नोच्यते, न च स्वविषयग्रहणसमर्थ भवति, अमुमर्थ भाष्येण दर्शयति-निवृत्त्यादीनामिति सूत्रोपन्यस्तक्रममङ्गीकृत्योच्यते निवृत्त्युपकरणलब्ध्युपयोगा. नामन्यतमाभावे एकेनाप्यङ्गेन विकले सति समुदाये न जातुचित् शब्दादिविषयस्वरूपावबोधो