________________ 169 सूत्रै 20 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् भवत्यात्मनः, विकलकरणत्वात् / अत्र च यदा शब्दोपयोगवृत्तिरात्मा एकोपयोगिता " भवति तदा न शेपकरणव्यापारः स्वल्पोऽप्यन्यत्र कान्तद्विष्टाभ्यस्तविषयकलापात् , अर्थान्तरोपयोगे हि प्राच्यमुपयोगबलमात्रियते कर्मणा, शङ्खशब्दोपयुक्तस्य शृङ्गशब्दविज्ञानमस्तमिततन्निर्भासं भवति, अतः क्रमेणोपयोग एकस्मिन्नपीन्द्रिविपये, किमुत बहुविधविशेषभाजीन्द्रियान्तरे, तस्मादेकेनेन्द्रियेण सर्वात्मनोपयुक्तः सर्वः प्राण्युपयोगं प्रत्येकेन्द्रियो भवति / एवं शेष विषयपरिच्छेदपरिणतावपि वाच्यम् , ये पुनरत्यन्तकान्तद्विष्टाभ्यस्ता विषयास्तानन्यमनस्कोऽपि विस्मतु चेच्छन् न विस्मरति, अतः सहैवोपयोगो भवति उपयोगान्तरेणेति / एतच्चोपयोगद्वयमेकस्मिन् काले पारमर्षप्रवचनाभ्यासाहितनैपुणाः न बाढमभ्युपयन्ति, यत आर्यगङ्गनिह्नवकैयुगपत् क्रियाद्वयोपयोगः प्रपञ्चतः प्रतिपिद्धो न पागमान्तरे कचिदुपनिबद्धः। क्रमस्तु तत्रोत्पलदलशतभेदवदतिशुष्कशष्कुलीभक्षणोपलब्धिवद् बातिमुक्ष्मत्वात् समयादिकृतो दुर्लक्षश्छद्मस्थेनेति / 'उपयोगः स्पर्शादिषु इति केचिद् भापन्ते सूत्रमिदं न भवति, भाष्यमेव सूत्रीकृत्य केचिदधीयते, तदेतदयुक्तम् , अविगानेन सूत्रमध्येऽध्ययनात् प्रतिविशिष्टाचार्यसम्प्रदायगम्यत्वाद् विवरणाच्च निश्चीयते सूत्रतेति // 19 // भा०–अत्राह-उक्तं भवता पश्चेन्द्रियाणि ( अ० 2, सू० 15) इति / तत् कानि तानीन्द्रियाणीति ? / उच्यते॥ ____टी-अत्राह उक्तमित्यादि सम्बन्धप्रदर्शनपरमिदं भाष्यम् , अत्रावसरे शिष्य आह-अभिहितमेतद् भवता पश्चैवेन्द्रियाणि भवन्ति सङ्ख्यातः तत् कानि पुनस्तानि नामतः ? उच्यते-स्वरूपतोऽवधृत्य नामविषयं प्रश्नमकृतेत्यतोऽत्र प्रश्ने अभिधीयते प्रतिवचनम् // . सूत्रम्-स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि // 2-20 // इन्द्रियनामानि र भा०-स्पर्शनं, रसनं, घ्राणं, चक्षुः, श्रोत्रमित्येतानि " पञ्नेन्द्रियाणि // 20 // ___टी-स्पर्शनेत्यादि सूत्रम् / स्पृश्यतेऽनेनेति स्पर्शनम् , सर्वाणि करणकारकसाधनान्यात्मनः कर्तुरभेदेन वर्तमानान्यतिशयवत् प्रयोजनप्रधानं प्रत्याहितपाटवानि ज्ञाने निवर्ये करणानि कथश्चिज्जीवादनन्यत्वाद् गमने प्रसाध्ये पादवद् देवदत्तो मांसपिण्डः पादाभ्यां गच्छति ग्राममित्यपराणि भेदभाञ्जि करणान्यस्य कतुरसिपरशुवास्यादीन्येवं भिन्नाभिधकरणकलापग्रामणीरयमात्मा निरवशेषक्रियानुष्टानशक्तियुक्तः कर्ता, अन्यथोभयकरणग्रामव्युदासानुगृहीतस्तृणमपि कुटिलयितुमयोग्यः स्यात् किमुतैहिकामुग्मिकानेककार्यविषयव्यापारानुष्टानमिति, यथैव च प्रतिविशिष्टज्ञाननिवृत्त्याधाने करणत्वमिन्द्रियाणाम् , एवं वीर्यवले 1 'दुर्लक्षच्छद्मस्थोनेति उपः' इति क-ख-पुस्तकयोर्मध्ये अत्रायं भाग उपलब्धः परं त्वनुपयुक्तः प्रामादिक नभातीति टिप्पण्या निवेशितः। 22