________________ सूत्रं 17 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 165 निर्वृत्तिः किंरूपेत्यत आह-अङ्गेति / अङ्गोपाङ्गनाम्ना प्रतिविशिष्टेन कर्मभेदेन निर्वतितानि-जनितानि-घटितानि इन्द्रियद्वाराणि-इन्द्रियविवराणि, इन्द्रियशब्देन चात्र भावेन्द्रियमुपयोगरूपं विवक्षितं तस्येन्द्रियस्य द्वाराण्यवधानप्रदानमार्गाचित्राः शकुल्यादिरूपा बहिरुपलभ्यमानाकारा निर्वत्तिरेका, अपरा त्वभ्यन्तरनिर्वृत्तिः, नानाकारं कायेन्द्रियमसङ्ख्येयभेद त्वादस्य चान्तर्बहिर्भेदो निवृत्तेने कश्चित् प्रायः, प्रदीर्घव्यससंस्थितं इन्द्रियसंस्थानान कर्णाटकायुधं क्षुरप्रस्तदाकारं रसनेन्द्रियम् / अतिमुक्तकपुष्पदलचन्द्रकाकारं किश्चित् सकेसरवृत्ताकारमध्यविनतं घ्राणेन्द्रियम् / किश्चित् समुन्नतमध्यपरिमण्डलाकारं धान्यमसूरवचक्षुरिन्द्रियम् , पाथेयभाण्डकयवनालिकाकारं श्रोत्रेन्द्रियं नालिककुसुमाकृति चावसेयम् / तत्राद्यं स्वकायपरिमाणं द्रव्यमनश्च शेपाण्यङ्गुलासङ्ख्येयभागप्रमाणानि सर्वजीवानाम् / तथा चागमः-" फासिदिए णं भंते ! किंसंठिए पण्णत्ते ? गोयमा! नाणासंठाणसंठिए, जिन्भिन्दिए णं भंते ! किंसंठिए पण्णत्ते ? गोयमा ! खुरप्पसंठिए, पाणिन्दिए णं भंते ! किंसंठिए पण्णते? गोयमा! अतिमुत्तथचंदकसंठिए, चक्खुरिन्दिए णे भंते ! किंसंठिए पण्णते ? गोयमा ! मसूरयचंदसंठिए पण्णत्ते, सोइंदिए णं भंते ! किंसंठिए पण्णते ? गोयमा ! कलंबुयापुप्फसंठिए पण्णत्ते" (प्रज्ञा० सू० 191 ) / अभ्यन्तरां निवृत्तिमङ्गीकृत्य साण्यमूनि सूत्राण्यधीतानि, बाह्या पुननिवृत्तिश्चित्राकारत्वान्नोपनिबटुं शक्या, यथा मनुष्यस्य श्रोत्रं भ्रसमं नेत्रयोरुभयपावेतः, अश्वस्य मस्तके नेत्रयोरुपरिष्टात् तीक्ष्णाग्रमित्यादिभेदाद् बहुविधाकाराः / इममेव चातिक्रान्तभाष्यार्थ पर्यायान्तरेण स्पष्टयति भाष्यकारः-कर्मविशेषसंस्कृताः शरीरप्रदेशाः / अथवाङ्गोपाङ्गनामेवोपात्तमतीतभाष्ये न तु निमोणकर्म तदुपादानायेदमुच्यते-कमेविशेष इत्यादि / कर्मविशेषो नामकर्म तस्यापि विशेष अङ्गोपाङ्गनामनिर्माणकर्म च आभ्यां कर्मविशेषाभ्यां संस्कृता विशिष्टावयवरचनया निष्पादिता-निर्वर्तिताः औदारिकादिशरीराणां त्रयाणां प्रदेशाः-प्रतिविशिष्टा देशाः कर्णशष्कुल्यादयः प्रदेशाः / कर्मविशेषाभिधानश्रवणादतिसप्रमुग्धबुद्धामोहस्तदवस्थ एव चेतसीत्यतस्तदवबोधार्थं भूयोऽप्याह-निर्माणनामाङ्गोपाङ्गप्रत्यया मूलगुणनिर्वतेनेत्यर्थः / कर्मविशेष नामग्राहमाचष्टे निर्माणनाम च अङ्गोपाङ्गे च निर्माणनामाङ्गोपाङ्गे, मध्यव्यवस्थितो नामशब्द उभयं विशेष्यतया क्षिपति, ते कर्मणी प्रत्ययः कारणं-निमित्तं यस्य निवृत्तेः सा निर्माणनामाङ्गोपाङ्गप्रत्यया, मूलगुणनिर्वर्तना उत्तरगुणनिर्वर्तनापेक्षयोच्यते / उत्तरगुणनिर्वर्तना हि श्रवणयोर्वेधः प्रल 1 स्पर्शेन्द्रियं भदन्त / किंसंस्थानं प्रज्ञप्तम् ? गौतम / नानासंस्थानसंस्थितम् , जिह्वेन्द्रियं भदन्त | किसंस्थानं प्रज्ञप्तम् ? गौतम ! क्षुरप्रसंस्थितम्, घ्राणेन्द्रियं किंसंस्थानं प्रज्ञप्तम् ? गौतम ! अतिमुक्तचन्द्रकसंस्थितम् , चक्षुरिन्द्रियं किंसंस्थानं प्रज्ञप्तम् ? गौतम ! मसूरकचन्द्रसंस्थितम्, श्रोत्रेन्द्रियं भदन्त ! किंसंस्थानं प्रज्ञप्तम् ? गौतम | कदम्बकपुष्पसंस्थितं प्रज्ञप्तम्।