________________ 164 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 2 यापेक्षया पश्चापि द्वाभ्यां विशेषाभ्यां भिद्यन्ते निवृत्युपकरणविशेषेण लब्ध्युपयोगविशेषेण . चेति // ननु चैवं दशेन्द्रियाणि प्रसजन्ति द्विःपञ्चकाभिधानात् ततश्च इन्द्रयाणा मुख्य नियमोऽनर्थकः षडादिप्रतिषेधश्चेति। उच्यते-यद्येवमभविष्यद दशे न्द्रियाणीति सूत्रमकरिष्यत् प्राक्तनम्, न चैवमाचरितं तस्मादाश्रयप्रकारकथनमेतद् विवक्षितमेकस्यैव द्वित्वेन, यथा हि भवनद्वारं दार्वाकाशपरिच्छेदवदपि न द्वय्यामवतिष्ठते द्वित्वेऽप्याकाशदारुणोः, प्रयोजनं चास्य निर्गमप्रवेशलक्षणमेकस्यैव, तथा लब्धिनिवृत्त्युपकरणोपयोगाः क्रमेणामुना चतुष्टयमिन्द्रियलक्षणमविशकलितम्, न चेन्द्रियबहुत्वम्, अत एव निवृत्त्यभावाच्छेपत्रययोगाच्च मनोऽनिन्द्रियमुक्तं तस्मादयमदोषोऽतः सुष्ट्रचे-द्विविधानीन्द्रियाणि भवन्ति / सामान्यतः द्रव्यमयानि द्रव्यात्मकानि द्रव्येन्द्रियाणि, भावन्द्रियाणि तु भावात्मकान्यात्मपरिणतिरूपाणीति / अत्र च पुद्गलद्रव्यमेवानन्तप्रदेशस्कन्धमात्मप्रयोगापेक्षमायतते निवृत्त्युपकरणरूपतया सर्वाणीन्द्रियाण्यनन्तप्रदेशानि असङ्ख्येयात्मप्रदेशाधिष्ठितानि च द्रव्यात्मकानि भवन्ति इतरत्र द्वये आत्मपरिणामो भावः प्रयत्नमातिष्ठत इति॥१६॥ उक्तमिन्द्रियं द्रव्यभावभेदतो द्विविधम्, अधुना स्वरूपतो निरूपयितुकाम आह सूत्रम्-निवृत्त्युपकरणे द्रव्येन्द्रियम् // 2-17 // भा०-तत्र निर्वृत्तीन्द्रियमुपकरणेन्द्रियं च द्विविधं द्रव्येन्द्रियम् / निर्वृत्ति र रङ्गोपाङ्गनामनिवेर्तितानीन्द्रियद्वाराणि, कर्मविशेषसंस्कृताः दो शरीरप्रदेशाः, निर्माणनामाङ्गोपाङ्गप्रत्यया मूलगुणनिर्वर्तनेत्यर्थः / उपकरणं बाह्यमभ्यन्तरं च निर्वर्तितस्यानुपघातानुग्रहाभ्यामुपकारीति // 17 // टी-तत्र निर्वृत्त्युपकरणे द्रव्येन्द्रियम् / तत्रेत्यनेन भाष्यकारः सूत्रं सम्बन्धयति, तत्र द्वितये द्रव्येन्द्रियं तावनिर्धार्यते, स्वरूपभेदाभ्यां निर्वर्तनं निर्वृत्तिः प्रतिविशिष्टसंस्थानोत्पादः, उपक्रियतेऽनेनेत्युपकरणं निर्वृत्तिरेवेन्द्रियं निवृत्तीन्द्रियम्, उपकरणेन्द्रियमप्येवम् / उभयमेतत् पुद्गलपरिणामरूपमपि सदिन्द्रियव्यपदेशमनुते भावेन्द्रियोपयोगकारणत्वात्, यस्मात् हि तत्साचिव्यं भावस्यैवोपलिङ्गने समायाति आत्मभावपरिणामस्य भाविनो यत् सहायतया क्षमं द्रव्यं तदिह द्रव्येन्द्रियं प्रस्थदारुवदेषितव्यम् / तत्र निर्वृत्युपकरणयोः स्वरूपमाविष्करोति भाष्येणैव-निवृत्तिरङ्गोपाङ्गनामेत्यादिना। निर्माणनामकर्मान्तर्गतः कर्मभदो वर्धकिस्थानीयः कर्णशष्कुल्याद्यवयवसन्निवेशवि शेषरचनायामाहितनैपुणः, तथौदारिकादिशरीरत्रयाङ्गोपाङ्गनामकर्मभेदो निर्वृत्तीन्द्रियया यदुदयादङ्गान्युपाङ्गानि च निष्पद्यन्ते शिरोमुल्यादीनि, एतत् कर्म द्वयमुभयरूपं द्रव्येन्द्रियप्रसाधनाय यतते / भाष्यभावना चैवं कार्या / 1. वोल्लिझने ' इति क-ख-पाठः, 'वोपलिङ्गनैः' इति ग-पाठः /