________________ तस्वार्थाधिगमसूत्रम् [अध्यायः 1 भ्युपगतम्, तदभ्युपगमे च ज्ञानत्वं सम्यग्दर्शनस्य सुप्रतिपाद्यम् / तथा दर्शनमोहनीयस्येति ब्रुवता इदमभ्युपगतम्-दर्शनमोहनीयस्य क्षयादिषु सत्सु तत्प्रादुर्भावो न पुनदर्शनमोहस्तदावरणमित्येतद भावितमेव पुरस्तात् / ग्रन्थकारस्याप्ययमेवाभिप्रायः पुनरुद्घट्टित इति / तद्यथा इति / एभ्यो हेतुभ्यो यत् कार्यमुपजातं तत् प्रदश्यते-क्षयसम्यग्दर्शनमिति / मत्याधावरणीयदशेनमोहसप्तकक्षयादुपजातं क्षयसम्यग्दर्शनमभिधीयते, तेषामेवोपशमाज्जातं उपशमसम्यग्दर्शनमुच्यते, तेषामेव क्षयोपशमाभ्यां जातं क्षयोपशमसम्यग्दर्शनमभिदधति प्रवचनाभिज्ञाः / एषां च क्षयादीनां प्राग्भावना कुरीव, इह केवलं तदावरणीयेषु लगनीया इति / एवं क्षयादिहेतुकं यत् कार्यमुपाजनि तत् प्रदाधुना एतत् पृच्छयते-किमेकरूपाण्येवैतानि उतास्ति कश्चित् प्रकर्ष एषामिति ? / उच्यते___अत्र चेत्यादि / अत्रेति एषु क्षयादिसम्यग्दर्शनेषु, यथा कार्यभेदोऽभ्युपगतः एवं प्रकर्षभेदोऽभ्युपगन्तव्य इति कथयत्येतच्चशब्दः। तं च प्रकर्ष दर्शयन्नाह-औपशमिकेत्यादि। पूर्व च क्षयसम्यग्दर्शनं प्रधानस्वादुपन्यस्येदानी प्रकर्षस्य निदर्यत्वादन्ते तदुपन्यस्यति / उपशमेन-उदयविधातरूपेण निवृत्तमोपशमिकं, क्षयेण-उपरिशाटरूपेणोपशमेन च निवृत्तं क्षायोपशमिकम्, क्षयेण निवृत्तं क्षायिकम्, अत एषामौपशमिकादीनामिमा रचनामाश्रित्य परस्य परस्य विशुद्धिप्रकर्षों निर्मलता स्वच्छता तत्त्वपरिच्छेदितेत्यर्थः। औपशमिकं हि सम्यग्दर्शनं सर्वमलीमसम्, अल्पकालत्वात्, भूयश्च मिथ्यात्वगमनात्, यतोऽन्तर्मुहर्तमानं भवेत्, यदि च कालं तत्रस्थो न करोति एवं सति मिथ्यादर्शनमेवं प्रतिपद्यत इत्यागमः / तसाचौपशमिकतः क्षायोपशमिकसम्यग्दर्शनं विशुद्धतरम्, बहुकालावस्थायित्वात्, यत उत्कृष्टेन षट्षष्टिः सागरोपमाणि साधिकानि तदुक्तम्, अत एव च तस्य वस्तुपरिच्छेदे स्पष्टं ग्रहणसामर्थ्यमनुमातव्यमागमाच्चास्मात् , ततश्च क्षायिकं विशुद्धतमम् , सर्वकालावस्थायित्वात् स्पष्टवस्तुपरिच्छेदाच्चेति // 7 // किं चान्यदित्युत्तरसूत्रसम्बन्धवाक्यं, न केवलमेमिरेवैमिश्च निश्चयः कार्य इति, कैरिति चेदित्यत आह सूत्रम्-सत्सङ्ख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहत्वैश्च // 1-8 // - टी-सत्सङ्ख्येत्यादि / सच्छब्दं च सङ्ख्यादिविशेषणं कश्चिदाश्रयेदित्यतो निराकरणार्थ विविच्य दर्शयति भा०-सत्, सङ्ख्या , क्षेत्र, स्पर्शनं, कालः, अन्तरं, भावः, अल्पबहुत्वमित्येतेश्च सद्भूतपदप्ररूपणादिभिरष्टाभिरनुयोगदारैः सर्वभावानां विकल्पशो विस्तराधिगमो भवति / कथमिति चेत्, उच्यते-सत्, सम्यग्दर्शनं किमस्ति नास्ति ? अस्तीत्युच्यते / वास्तीति चेत्, उच्यते-अजीवेषु तावन्नास्ति, जीवेषु 'तत्वानां ' इत्यधिकः क-ख-पाठः /