________________ सूत्र 8] स्वोपज्ञभाष्य टीकालङ्कृतम् तु भाज्यम् / तद्यथा-गतीन्द्रियकाययोगकषायवेदलेश्यासम्यक्त्वज्ञानदर्शनचारित्राहारोपयोगेषु त्रयोदशस्वनुयोगदारेषु यथासंभवं सद्भूतप्ररूपणा कर्तव्या // - टी-सत् सङ्ख्या क्षेत्रमित्यादि युक्तमेवैतद् द्वारमिति / इतिशब्द इयत्तायाम् / इयद्भिरेव येऽन्ये तेऽत्रैवान्तर्भवन्ति, एतैश्च सूत्रोक्तैः / एतदेव विशेषयति-सद्भूतपद्प्ररूपणादिभिः, सद्भूतस्य–विद्यमानार्थस्य सम्यग्दर्शनपदस्य प्ररूपणा-तत्त्वकथनं सा आदिर्येषां तानि सद्भूतपदप्ररूपणादीनि तैरिति विवेकेन फलं दर्शयति-अष्टाभिरिति / तेषां च व्याख्यानाङ्गतां कथयति-अनुयोगद्वारैरिति / सर्वभावानाम इत्यनेनैषां व्यापितां कथयति-सदादीनां विकल्पश इत्यादि व्याख्यातमेव / कथामिति चेदित्यनेन पराभिप्रायमाशङ्कते-केन प्रकारेण एभिर्विस्तरेणाधिगमः क्रियत इत्येवं मन्येथाः? उच्यते-यथा क्रियते विस्तराधिगम इति, सदित्यनेनाद्यद्वार परामृशति, कथं चैतस्य द्वारस्योत्थानं ? यथा शङ्कते परः-किमस्ति नास्तीत्येवम्, अन्यथा सत्त्वे निर्माते अयुक्तमेवैतत् कथनमिति, अत आशङ्कावाक्यं दर्शयति-सम्यग्दर्शनं किमस्ति नास्तीति / अस्माचार्य संशयः, यतः शब्दोऽसत्यपि.बाह्येऽर्थे शशविषाणादिकः प्रवर्तमानो दृष्टः, सति च बहिरनेऽर्थे घटादौ दृष्टो घटादिः, अतः किं सत्यर्थे उतासति सम्यग्दर्शनशब्दः प्रवृत्तो बहिरर्थ इति प्रश्नयति / मरिराह-अस्तीत्युच्यते / विद्यते सम्यग्दर्शनशब्दवाच्योऽर्थो घटादिशब्दवाच्यवत् / कथं चानेन निरचायि, आप्तोपदेशात् प्रशमसंवेगनिदाद्यनुमानाच्च / इतरेणाव्यक्तामिधानवत् प्रतिपद्य पुनश्थोद्यते-क चैतदिति / गुणो ह्ययं तेन च परतन्त्रत्वात् साधिकरणेन भवितव्यम् रसेनेवाणुव्यापिनेत्येतदाशङ्कय पराभिप्रायमाचार्य आह-वास्तीति चेत् मन्यसे, उच्यते-द्वये पदार्थाः-जीवा अजीवाश्च / तत्राजीवेषु तावन्नास्ति, निश्चयावलम्बनेन धर्माधर्माकाशपुद्गलेषु, यतो ज्ञानाख्यश्चेतनावत्सु समवेतो गुणः स कथमन्यधर्मः सन्नन्यत्र वर्तते / यच्चोक्तं कस्येति स्वामित्वचिन्तायां अजीवस्य प्रतिमादेः सम्यग्दर्शनमिति तदुपचारात, नत्वसौ मुख्यः कल्पः / इह तु मुख्यां वृत्तिमशिश्रियद वाचकमुख्यः, अजीवेषु तावदुक्तक्रमेण नास्तीति / अथ जीवेषु का वार्तेत्यत आह-जीवेषु तु भाज्यम् / तुशब्द एवकारार्थे भाज्यमेव, नावश्यम्भावि / सर्वेषु भजनां च कथयन्ति तद्यथा-गतीन्द्रियेत्यादिना / गत्यादीनि चान्यत्रावश्यकादौ प्रपञ्चेनोक्तानि, अशून्यार्थ तु किश्चिद् दर्श्यते-गत्यादिषु पूर्व प्रतिपन्नाः प्रतिपद्यमानाश्च सम्यक्त्वं चिन्त्यन्ते / तत्र नारकप्रभृतिषु गतिषु चतसृष्वपि पूर्व प्रतिपन्नाः प्रतिपद्यमानाश्च जीवाः सन्ति, नरकगतौ क्षायिकक्षायोपशमिके स्यातां, तियेग्गतावप्येते, मनुष्यगतो त्रीण्यपि क्षायिकादीनि सन्ति, देवगतो १'प्ररूपणादीनि' इति क-ख-पाठः।