________________ सूत्रं 7] स्वोपनमाष्य-टीकालङ्कृतम् 61 सर्वकर्मवियुत इति / यतः सादिरप्यसौ रुचिर्न कदाचिदपैष्यतीति / सम्यग्दृष्टिः सादिरपर्यवसानैवेत्ययं स्त्रीलिङ्गनिर्देशः भवस्थकेवलिनः सयोगायोगस्य च सिद्धस्य च तस्या रुचेरनन्यत्वख्यापनार्थो, नासौ ततोऽन्य इति / अथवा सम्यग्दृष्टिः सादिरपर्यवसाना यामिहिता तामनुभवति सयोगादिरिति नेयम् // सम्प्रति विधानद्वार परामृशन्नाह-". . भा०-विधानम् / हेतुत्रैविध्यात् क्षयादि त्रिविधं सम्यग्दर्शनम् / तदावरणीयस्य कर्मणो दर्शनमोहनीयस्य च क्षयादिभ्यः / तद्यथा-क्षयसम्यग्दर्शनं, उपशमसम्यग्दर्शनं, क्षयोपशमसम्यग्दर्शनमिति / अत्र चौपशमिकक्षायोपशमिकक्षायिकाणां परतः परतो विशुद्धिप्रकर्षः // 7 // किं चान्यत् // टी.-विधानमिति। विधीयते तदिति विधानं भेदः प्रकार इति // ननु च साधनद्वा _ रेऽभिहित एव भेदो निसर्गसम्यग्दर्शनम्, अधिगमसम्यग्दर्शनमिति च, साधन-विधानPATI- किं पुनर्भेद आख्यायते ? / उच्यते-तत्र न सम्यग्दर्शनस्य भेदः प्रतिपर पिपादयिषितः, किन्तु निमित्तम् , तत्र क्षयादि यदुत्पत्तौ कारणतां प्रति , पद्यते तद्भेदो विवक्षितः, इह तु तेन निमित्तेन यत् कार्यमुपजनितं तस्य भेदः प्रतिपाद्यत इति, एवं च कृत्वा वक्ष्यमाणस्य सङख्याद्वारस्यास्य च विधानद्वारस्य स्पष्ट एव खेदो निदर्शितः स्यात् / विधानं सम्यग्दर्शनस्य भेदकं, क्षयसम्यग्दर्शनम् उपशमसम्यग्दर्शनं धयोपशमसम्यग्दर्शनमिति। सङ्ख्याद्वारेषु तद्वतो भेदः प्रतिपाद्यते, कियत् सम्यग्दर्शनम् ? कियन्तः सम्यग्दर्शनिन इत्यर्थः / निर्णयवाक्येऽपि चासङ्ख्येयानि सम्यग्दर्शनानीत्यस्मिन्नसंख्येयाः सम्यग्दर्शनिन इत्यर्थः,मतुब्लोपादभेदोपचारात् अर्शआदिपाठा वा,तस्माद्युक्तं त्रयाणां साधनविधानसङ्ख्याद्वाराणां परस्परेण भेद इति / सम्प्रति भेदकथने प्रवर्तमान एकस्याश्च भेदरूपता रुचेरयुक्तरूपेति मन्यमानः कारणोपाधिकं भेदं दर्शयन्नाह-हेतुत्रैविध्यात् क्षयादि त्रिविधमित्यादि / तिस्रो विधा यस्य स त्रिविधो हेतुः अन्यपदार्थः, विविधस्य भावस्त्रैविध्यम्, हेतोस्वैविध्यं हेतुत्रैविध्यम्, तस्माद्धेतुत्रैविध्याद् वर्तमानसामीप्यादिवत् समासः / हेतुत्रैविध्यप्रदर्शनायाह-क्षयादि त्रिविधं सम्यग्दर्शनम् इति / कार्यनिर्देश एषः, न च त्रिभिः सम्भूयैकं जन्यते मृदुदकगोमयैरिवोपवेशनकं, किन्तु क्षयेणान्यैव रुचिरात्यन्तिकी सकलदोपरहिताऽऽविर्भाव्यते, क्षयोपशमेनापि चान्यादृश्येव, तथोपशमेनेति, अतस्त्रिविधं सम्यग्दर्शनम् / यत्कार्य क्षयादिहेतुभिः / के पुनस्ते हेतव इति ? / उच्यते-क्षयादयः, कस्य ते क्षयायोऽत आह-तदावरणीयस्येत्यादि / तस्य-सम्यग्दर्शनस्य, आवरणीयम्-आच्छादकं शलाञ्छनस्येवाभ्रादि, तस्य चावरणीयं कर्म ज्ञानावरणीयं, मत्याद्यावरणीयमित्यर्थः। तस्य तदावरणीयस्य कर्मणः / तथा दर्शनमोहनीयस्य च इति, कस्येति चेत् ? उच्यते-अनन्तानुबव्यादिदर्शनमोहनीयस्य चेति, अनन्तानुबन्ध्यादिदर्शनसप्तकस्य क्षयादिभ्य इति च-क्षयउउसमक्षयोपशमेभ्यो हेतुभ्यस्तदुपजायते, सम्यग्दर्शनावरणीयस्येति च ब्रुवता ज्ञानावरणीयम