________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 सत्यपि संयोगजन्यत्वे न विवक्ष्यते, अत एव च तल्लक्षणमाकाशस्य, यस्माद व्योमैवासाधारणकारणतया तथोपकरोति,अतो द्रव्यान्तरसम्भविनोपकारेणातीन्द्रियमप्यनु मेयमात्मवद् धर्माः दिवद् वा, यथा पुरुषहस्तदण्डसंयोगभेर्यादिकारणः शब्दो भेरीशब्द इति व्यपदिश्यते यवा कुरश्वासाधारणकारणत्वादेवमवगाहोऽप्यम्बरस्य प्रतिपत्तव्यः / यदप्याहुः-अवगाहतेऽणुरवगाहते जीव इति सामानाधिकरण्यदर्शनादवगाहकद्रव्यविषय एवावगाह इति आस्ते देवदत्त इत्यासनवत, एतदप्ये तेनैव प्रत्युक्तं वेदितव्यम् // ननु प्रागिदमुक्तमलक्षणमवगाहः खस्याव्याप्तरिति, उच्यते-नवेदमशेषाकाशलक्ष्म प्रतिजानते समयवेदिनः, किं तर्हि ? लोकाकाशस्य, अत एवोक्तं-लोकाकाशेऽवगाह इति, आकाशं शुषिरलक्षणमेकरूपं तस्य धर्मादिद्रव्यग्वगाहिभिर्विभागः कृत इत्यतो लोकाकाशमुच्यते, अन्यथा तुल्ये शौषिर्ये निर्लक्षणमेव लोकाकाशं स्यादितरद् वा / कथं केषामुपफरोतीति व्याख्यायतेभा०-धर्माधर्मयोरन्तःप्रवेशसम्भवन पुद्गलजीवानां संयोगविभागैश्चेति॥१८ टी०- धर्माधर्मयोरित्यादि / धर्माधर्मप्रदेशा ह्यालोकान्ताल्लोकाकाशप्रदेशनिर्विभागवर्तित्वेनावस्थितास्तस्मादन्तरवकाशदानेन धर्माधर्मयोरुपकरोति, आकाशप्रदेशाभ्यन्तरवर्तित्वात् धर्माधर्मप्रदेशानाम्, अलोके तदसम्भवादिति, स्वल्पतरासख्येयप्रदेशव्यापित्वात् क्रियावत्वाच पुद्गलजीवानां संयोगैर्विभागैश्वोपकरोति, अन्यत्रावगाहाः सन्तो मृन्मनुष्यलोष्ठशकलादयः पुनान्यत्रोपलभ्यन्ते,सर्वत्र चाभ्यन्तरेऽवकाशदानादेकोऽप्यवगाहोऽवगायोपाधिभेदान्नानैव लक्ष्यने, चशदादन्तःप्रवेशसम्भवेनोपकारः संयोगविभागेश्चेति योजनीयम्, न चाभाव उपकारको दृष्टः शशविपाणादिवदित्यनावरणमात्रताव्युदासोऽवगायत्याज्जलादिवल्लो संव्यवहारप्रतीतेः / अथा विद्यमाना आवृतियस्य यत्रेति वा बहुव्रीहावन्यपदार्थप्रधानत्वाद् भावरूपतव, आवरणादन्यदनावरणं चेत आवरणं न भवतीति वा पर्युदासप्रसज्यप्रतिषेधान्यतराभ्युपगमे च सदोषतैवानिच्छतोऽपि बलात् पदार्थान्तरत्वप्राप्तेः // अपरे शब्दलिङ्गमाकाशं सङ्गिरन्ते, गुणगुणिभावेन व्यवस्थानात्, तदयुक्तं, रूपादिमत्त्वाच्छब्दस्य, प्रतिघाताभिभवाभ्यां च रूपादिमत्ता विनिश्चया / अन्ये प्रधान विकारमा चक्षते, तदप्यसमीचीनम्, असिद्धत्वात् प्रधानस्य, कथं वा प्रधानं नित्यआकाशालङ्ग सम्बनिरवयवनिष्क्रियत्वादिस्वभावं सद् अनित्यादिभिराकारैः परिणस्यत धिमन्तातरम् - इति ? / अथैवं मन्येथाः-प्रधानविकारो विज्ञानं दृष्टं सक्रियं, न चापहवः प्रत्यक्षसमधिगते समस्तीति, सत्यमिदं दृष्ट, न तु प्रधानविकारतया, न च सत्त्वं प्राधान्येन 1 आकाशस्य द्रव्यत्वेऽपि शुषिरतया प्रतिपादनं परप्रसिद्धेः अवगाहकतागुणप्राधान्यता / 2 नहि तेषां कुतोऽपि प्रवेशः किन्तु सदा अरूपितया तदनतिरिक्तवृत्तितयावस्थानं, जीवादीनां विभुत्वाभावात् संयोगादिभावः, चकारो जीवपुद्गललक्षणोपकार्य संग्रहाथ, अन्वयश्चोपकारेण, अन्तःप्रवेशस्यान्यूनानतिरिक्तवृत्त्यर्थत्वात्, जीवादीनां प्रतिप्रदेशसमानावगाहाभावात् न स तेषाम् /