________________ वोढा शीलभरस्य सच्छुतनिधिर्मोक्षार्थिनामग्रणी ज्वालामलमुच्चकैर्निजतपस्तेजोमिरव्याहतम् // १॥-शार्दूल. यत्र स्थित प्रवचनं, पुस्तकनिरपेक्षमक्षतं विमलम् / शिष्यगणसम्प्रदेयं, जिनेन्द्रवत्राद् विनिष्क्रान्तम् // 2 // आर्या तस्याभूत् परवादिनिर्जयपटुः सैंहीं दधच्छूतां नाम्ना व्यज्यत सिंहसूर इति च ज्ञाताखिलार्थागमः। शिष्यः शिष्टजनप्रियः प्रियहितव्याहारचेष्टाश्रयाद् ___भन्यानां शरणं भवौघपतनक्लेशार्दितानां भुवि // 3 ॥–शाईल. निधूततमःसंहतिरखण्डमण्डलशशाङ्कसच्छाया / अद्यापि यस्य कीर्तिभ्रमति दिगन्ताऽनविश्रान्ता // ४॥-आर्या० शिष्यस्तस्य बभूव राजिकशिरोरत्नप्रभाजालक व्यासङ्गच्छरितस्फुरन्नखमणिप्रोद्भासिपादद्वयः। भास्वामीति विजित्य ना(मा?)म जगृहे यस्तेजसां सम्पदा ___ भास्वन्तं भवनिर्जयोद्यतमतिविद्वज्जनाग्रेसरः // ५॥–शार्दूल. क्षमया युक्तोऽतुलया, समस्तशास्त्रार्थविन्महाश्रमणः।। गच्छाधिपगुणयोगाद्, गुणाधिपत्यं चकारार्थ्यम् // ६॥-आर्या तत्पादरजोऽवयवः, स्वल्पागमशेमुषीकबहुजाड्यः। तत्त्वार्थशास्त्रटीका-मिमां व्यधात् सिद्धसेनगणिः ॥७॥-आर्या. यद्यपि भाष्यानुसारिटीकाकाराणां श्रीसिद्धसेनगणीनां परिचयः तत्कृतप्रशस्तितः स्फुटीभवति, तथापि सिद्धसेनेतिनामधेयानां विविधसूरीणां विषये किश्चिदपि वळ नानावश्यकम् / 1 श्रीसम्मतितर्कादिप्रौढग्रन्थप्रणेतारः तार्किकचूडामणयः कुमुदचन्द्रेत्यपरनामघेयाः कल्याणमन्दिरस्तोत्रकारः श्रीसिद्धसेनदिवाकराः वृद्धवादिसूरिशिष्याः। 2 वादिकुञ्जरकेसरीत्यादिविरुदधारिश्रीवप्पमहिस्रिगुरवः श्रीसिद्धसेनसूरयः / 3 श्रीबप्पभट्टिमूरिसन्तानीययशोभद्रसूरिगच्छालङ्कारयशोदेवसूरिशिष्याः विलासर्वईकहासूत्रधाराः साहारणेत्यपरनामकाः श्रीसिद्धसेनसूरयः। 4 प्रवचनसारोद्धारस्य सं० ११४२तमे वर्षे वृत्तिनिर्मातारः चन्द्रगच्छीयप्रद्युम्नसरिपरम्परागतदेवभद्रशिष्याः सिद्धसेनसूरयः श्रीयशोदेवस्य गुरवः। ___ 5 बृहत्क्षेत्रसमासस्यः सं० ११९२तमे वर्षे टीकाकाराः उपकेशगच्छीयदेवगुप्तसूरिशिष्याः श्रीसिद्धसेनसूरयः।