________________ श्रीनाणकीयगच्छभूषणाः श्रीसिद्धसेनसूरयः सं० 1433 / 7 श्रीसिद्धिसागरसूरिसन्तानीयाः श्रीसिद्धसेनसूरयः सं० 1294 / 8 श्रीसरस्वतीनदीतटे सिद्धपुरपत्तने सिद्धचक्रमाहात्म्यप्रणेतारः श्रीसिद्धसेनसूरयः / एवमन्यान्यपुस्तकाधारेण संशोध्य पाठान्तरच्छायाटिप्पनादिना विशदीकृत्य शुद्धिपप्रेषच संकलय्य सम्पादितेऽसिन् मनोमोहके ग्रन्थे सततं समभ्यस्यन्तां तत्वार्थान्वेपिणश्छात्राः, साधन्तमवलोकयन्तामालोचकाः, तर्कयन्तां तार्किकाः, फलेग्रहितां नयतां मामकीनं परिश्रमम्, संशोधयन्तु सूचयन्तु च सदयाः सहृदया मतिमान्यप्रभवा दृष्टिदोपनिबद्धा वा स्खलना इति प्रार्थयमानः सततमध्ययनाध्यापनकार्यदक्षशेमुषीशेखरश्रमणादिम्पः मदङ्गीकृतकार्यसर्वाङ्गतासाधकानि कष्टसाध्यानि सूत्रकारसम्प्रदायसमयादिविषयकानि साधनानि याचमानः श्वेताम्बरदिगम्बरानायसूत्रपाठभेदसूची-वर्णानुसारिसूत्रानुक्रमपिका-सूत्रकारसम्प्रदाय-तत्समयनिर्णय-श्रीसैद्धसेनीयटीकाऽन्तर्गतसाक्षीभूतपाठप्रदर्शककोष्टकादिसमन्वितं द्वितीयं विभागं यथामति संशोध्य घीधनकरकमले समर्पयिष्यामीति च निवेदयमानो विरमामि / मोहमयीनगर्यो, भूलेश्वरवीभ्याम् . ) सुज्ञसेवासमुत्सुको आषाढकृष्णैकादश्यां हीरालालः। १९८२तमे वैक्रमीयाब्दे. 1 श्रीमजिनविजयमुनिसम्पादित प्राचीनलेखसंग्रहद्वितीयविभागे ५३०-५३१तमौ लेखा।