________________ तत्त्वार्थाधिगमसूत्रम् . [ श्रीदेवगुप्तउक्तमपिशब्दविकल्पे पट पुरुषप्रकृतय इति, काः पुनस्ता इति, एताः अधमतमः अधमः विमध्यमः मध्यमः उत्तम उत्तमोत्तम इति, आसामाचार्यो निरूपणार्थमाह कर्माहितमिह चामुत्र, चाधमतमो नरः समारभतें। इहफलमेव त्वघमो, विमध्यमस्तूभयफलार्थम् // 4 // आर्या व्या०-कर्माहितमित्यादि / अथवा किमन्यदपि कर्मास्ति यतो विशेष्यते कुशलानुबन्धमिति, ओमित्याह चतुर्विधम्, कथमिति, षटू पुरुषाः तेपामायत्रयसाकुशलानुबन्धं, चतुर्थस्य कुशलाकुशलानुबन्ध, पञ्चमस्य कुशलानुबन्धं, षष्ठस्य तु निरनुबन्धमिति / एषां स्वामी विकल्पमाह-कर्माहितमित्यादि / कर्माहितमिह चामुत्र चाधमतमो नरः समारभते / अहितमकुशलमित्यर्थः, काहितम् ? इह चामुत्र च, इहलोकपरलोकयोः, इह चेति एवार्थे चशब्दः / आस्तां तावत्परलोके, इहैव तावदिदं जिजीविषुभिरिव विषपानमारभ्यमाणमहितायेति / उत्तरः समुच्चये, इह चामुत्र चेति, अधमतमो जघन्यतमः-पापिष्ठः नरो मनुष्यः / त्रयाणामपि सम्भवे व्यवहारप्रधानत्वादारम्भसमर्थत्वाच प्रायः पुरुषनिर्देशः। समारभते। समेकीभावे, क्रियायोगाभिविध्योराङ्, सर्वार्पितकरणोपकरणो ह्यहितमारभते, संरम्भसमारम्भारम्भावस्थाश्च वक्ष्यति, तासामाद्यद्वितीययोस्तावदयमहितानुबन्धी किं पुनस्तृतीयस्यामिति दर्शयति / निदर्शनं त्वस्य मार्गिकमत्स्यबन्धादयः, ते हि सर्वकुत्सितवृत्तयोऽन्त्यावसायिनो विशिष्टजनधिकृतजन्मानो रूक्षस्फुटितविकृतशरीराः कृच्छ्रेणापि जिजीविषवः सलिलारण्यपर्वतादिषु परोपघाताय पर्यटन्तः क्षुत्पिपासाशीतोष्णवर्षवातदंशादिसन्निपातंदुःखप्रत्यपायमिहैवाप्नुवन्ति,आयुर्भोगानन्तरं चाकुशलकर्मप्रेरिता नरकेधूत्कटदुःखभाविनो भवन्तीत्येवमुभयलोकाहितानुबन्ध्यधमतमः / इहफलमेव त्वधमः,इह फलमस्येति इहफलं कर्म, एवावधारणे, इहफलमेव च कर्म नोर्ध्वमिति, तुशब्दो विशेषोपप्रदर्शननिवृत्त्योः , न तदिहफलमेव, अधमस्त्वेवमुपात्तबुद्धिः सन् समारभत इति / परलोकमनोरथं निवर्त्य विशिष्योपदर्शयति / अधमो जघन्यः पापः / निदर्शनं परलोकापवादिप्रभृतयः, ते हि कृच्छ्रावाप्तविषयामिषानुषक्तचेतसो मोहपटलाकुलान्तरात्मानो भोगलवत्यागासहिष्णवो निर्वीजा अपलापित्वादेकाकिनो मा भूष्यन् निष्कुत्सिता इति च सहायान् जिघृक्षवः, कः पुनः परलोकादागतो मूढप्रवादोऽयमेतावदेवेदमिन्द्रियगोचरान्तर्वर्ति वस्तु नोर्ध्वमित्येवमादिभिर्वालिशजनविप्रलम्भनोपायैः परलोकमपोखैव ऐहलौकिकेषु पूर्वेभ्यो न्यूनेषु कर्मसु प्रवर्तन्ते / विमध्यमस्तूभयफलार्थम्, अप्राप्तोमध्यमावस्थां विमध्यमः। उभयस्मिन् फलं उभयफलं तदस्यार्थो निबन्धनमित्युभयफलार्थ कर्म, उभयफलाय उभयफलार्थ कर्म, समारभते इति करोति। कथमुभयत्रापि फलं भुंजीयेति तुशब्दो विवेचयति / निदर्शनं महाभोगिकृपीवलवणिगा१'अधमाधमः' इति क-पाठः / २'मा भूष्यन् नः कुत्सिता' इति स-पाठः, 'माभूष्मन् निःकृत्सिता' इति ग-पाठः।