________________ क्षेत्रापेक्षया कालविचारः सूत्रं 15 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 295 सुषमा / द्वे सागरोपमकोटीकोटयौ सुषमदुष्षमा। द्विचत्वारिंशद्वर्षसहस्राणि हित्वा चैका कोटीनां कोटी दुष्षमसुषमा। एकविंशतिवर्षसहस्राणि दुष्षमा / तावत्येव दुषमदुष्षमा, एकविंशतिवर्षसहस्राणीत्यर्थः। भा०-एताः अनुलोमप्रतिलोमा अवसर्पिण्युत्सर्पिण्योर्भरतैरावतेष्वनाधनन्तं परिवर्तन्ते अहोरात्रवत् / तयोः शरीरायुःशुभपरिणामानामनन्तगुणे हानिवृद्धी / अशुभपारिणामानां वृद्धिहानी / अवस्थिताऽ! वस्थितगुणाश्चैकैकाऽन्यत्र / तद्यथा-कुरुषु सुधमसुषमा, हरि रम्यकवासेषु सुषमा, हैमवतहैरण्यवतेषु सुषमदुष्षमानुभावः, विदेहेषु सान्तरद्वीपेषु दुष्षमसुषमा इति,एवमादिमनुष्यक्षेत्रे पर्यायापन्नः कालविभागो ज्ञेय इति // 15 // टी-एताः सुषमदुप्पमाद्या यथोपन्यस्ता आनुलोम्येन पडप्यवसर्पिणीनामकालः शरीरोच्छायायुष्ककल्पवृक्षादिपरिहाणेर्दशसागरोपमकोटीकोट्यः परिमाणतः / तथा प्रातिलोम्येनोत्सर्पिणीनामकालः शरीरोच्छायादिपरिवृद्धेदशसागरोपमकोटीकोट्य एवं परिमाणतः / एतच्चोत्सर्पिण्यवसर्पिणीकालचक्रकं पञ्चसु भरतेष्वैरावतेषु पञ्चस्वनावन्तं परिवर्तते, यथाऽहोरात्रे वासरो रजनी वा न शक्यते निरूपयितुमादित्वेनान्तत्वेन वाऽनादित्वादहोरात्रचक्रकप्रवृत्तेस्तथैतदपीति / तत्रावसर्पिण्यां शरीरोच्छायादेरनन्तगुणपरिहाणिः परतः परतः। सुषमसुपमायां गव्यूतत्रितयं शरीरोच्छायो मनुष्याणामायुस्त्रीणि पल्योपमानि शुभपरिणामोऽपि कल्पवृक्षादिरनेकः / सुषमायां गव्यूतद्वयं पल्योपमद्वयं कल्पवृक्षादिपरिणामश्च शुभो हीनतरः / सुपम दुष्पमायामेकं गव्यूतमेकं पल्योपमं हीनतरश्च कल्पवृक्षादिपरिणामः / दुकालचक्रे शरीरोकछायादिविचारः प्पमसुपमायां पञ्चधनुःशतप्रभृति सप्तहस्तान्तं शरीरप्रमाणमायुरपि पूर्वलक्ष " परिमाणं परिहीनश्च कल्पवृक्षादिपरिणामः / दुप्पमायामनियतं शरीरप्रमाणमायुरप्यनियतं वर्षशतादर्वाक पर्यन्ते विंशतिवर्षाणि परमायुः शरीरोच्छायो हस्तद्वयं औपधिवीर्यपरिहाणिरनन्तगुणेति / अतिदुष्पमायामप्यनियतं शरीरोच्छ्रायादि सर्व पर्यन्ते तु हस्तप्रमाणं वपुः परमायुः पोडश वर्षाणि निरवशेषौपधिपरिहाणिश्चेति, एवं वृद्धिः प्रातिलोम्येन वक्तव्या / अशुभानां परिमाणविशेषाणामवसर्पिण्यां वृद्धिरुत्सर्पिण्यां हानिरिति / अवस्थिता स्वरूपेण न भ्रमति / ये च गुणास्तस्यां ते चावस्थिताः कल्पवृक्षादिपरिणामविशेषाः अतोऽवस्थिता (वस्थितगुणा) चान्यत्रैकैका सुपमसुपमादिर्भवति, तद्यथा-देवकुरुत्तरकुरुघुसुषमसुधमानुभावाःसर्वदावस्थिताः,हरिरम्यकवास्येषु सुषमानुभावोऽवस्थितः, हैमवतहेरण्यवतेपु सुषमदुष्षमानुभावोऽवस्थितः,विदेहक्षेत्रेषु पट्पञ्चाशत्सु चान्तरदीपेषु दुष्षमसुषमानुभावोऽवस्थितः / एवमादिमनुष्यक्षेत्रे पर्या १'ताः' इति घ-पाठः / 2 गुण' इति घ-पाठः / 3 ०णामवृद्धि.' इति घ-पाटः /