________________ 294 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 येण वन्यथोपात्तः स्वल्पस्थानश्चेति, सर्वथा शीर्षप्रहेलिकान्तः सङ्ख्येयः कालो भवति समयादिरिति / सूर्यप्रज्ञप्तौ तु पूर्वादुपरि लताङ्गादिक्रमः शीर्पग्रहेलिकान्त इति, एतावान् गणितशास्त्रविषयोऽपीति / भा०-अत ऊर्ध्वमुपमानियतं वक्ष्यामः / तद्यथा हि नाम योजनविस्तीर्ण / योजनाच्छ्रायं वृत्तं पल्यमेकरात्राद्युत्कृष्टसप्तरात्रजातानामङ्गपल्योपमादिवि मादा लोन्नां गाढं पूर्ण स्याद्, वर्षशताद वर्षशताकैकास्मन्नुद्धियमाणे शुद्धिनियमतो यावता कालेन तद् रिक्तं स्यादेतत् पल्योपमम् / तद् दशभिः कोटाकोटिभिर्गुणितं सागरोपमम् / तेषां कोटाकोट्यश्चतस्रः सुषमसुषमा।तिस्रः सुषमा / वे सुषमदुष्षमा / द्विचत्वारिंशद् वर्षसहस्राणि हित्वा एका दुष्पमसुषमा।वर्षसहस्राणि एकाविंशतिर्दुष्षमा / तावत्येव दुष्षमदुष्षमा // ___टी०-अत ऊर्ध्वमुपमानियतं वक्ष्याम इति / सङ्ख्येयादनन्तरमसङ्ख्येयः कालो भण्यते / स च गणितविषयातीतत्वादुपमया कयाचिन्नियम्यते, सर्वश्चैष बौद्धो व्यवहारः परप्रतिपत्तयेऽभ्युगम्यते, बाह्यार्थशून्यत्वात्, अन्यथा परमार्थविचारणायामतिदुष्करं स्यादिदं सर्वम्, तद्यथा हीत्यादि यावदेतत् पल्योपममिति सुज्ञानम्,तच त्रिविधम् -उद्धारपल्योपममद्धापल्योपल्योपमस्यावा- पमं क्षेत्रपल्योपमं चेति / पुनवर्वादरसूक्ष्मभेदादेकैकं द्विधा, तत्रोक्तलक्षणं भान्तरभेदाः तेषां प्ये बादराद्धापल्यं सङ्ख्येयवर्षकोटिव्यतिक्रान्तिसमकालम् / तान्येव वालाप्रयोजनानि च ग्राण्येकैकशोऽसङ्ख्येयान्यदृश्यानि खण्डानि कृत्वा बुद्धया स एव पल्यो भ्रियते। ततः प्रतिवर्षशतमेकैकवालाग्रोद्धारे वर्षाण्यसङ्ख्येयानि व्यतिक्रामन्त्येतत् सूक्ष्माद्धापल्योपमम्। अस्य च प्रयोजनमुत्सापिण्यादिविभागपरिज्ञानम्, ज्ञानावरणादिकर्मस्थितयः कायभवस्थितयश्च पृथिव्यादिकायानां निरूप्यन्त इति / उद्धारपल्योपमं तु बादरं स्थूलवालाग्रापहारे प्रतिसमयमेकैकस्मिन् सति भवति, तच्च सङ्ख्येयसमयपरिमाणं वेदिव्यम् / एतान्येव वालाग्राण्येकैकशोऽस ङ्ख्येयखण्डीकृतानि / ततः प्रतिसमयमेकैकवालाग्रोद्धारे वर्षकोटिभिः सङ्ख्येयाभिः सूक्ष्मोद्धारपल्यं भवति / अस्य च प्रयोजनमधेतृतीयसागरोपमोद्धारसमयराशिप्रमाणतुल्या द्वीपसमुद्रा इति / क्षेत्रपल्योपममपि बादरसूक्ष्मभेदाद् द्विविधम्, बादरलोमखण्डभृतक्षेत्रप्रदेशराश्यपहारे प्रतिसमयं बादरक्षेत्रपल्योपमम्, सूक्ष्मलोमखण्डभृतक्षेत्रप्रदेशराश्यपहारे प्रतिसमयं मूक्ष्मक्षेत्रपल्योपमम्, असङ्ख्योत्सर्पिणीभिश्च परिनिष्ठानमस्य भवति / एतेन च पृथिव्यादिजीवपरिमाणमानीयत इति प्रवचनविदो वर्णयन्ति प्रयोजनम् / एषां च त्रयाणामपि पल्योपमानां प्रत्येक कोटीनां कोटी दशगुणिता सती सागरोपममिति व्यपदिश्यते त्रिविधमेव / एषां सागरोपमाणां चतस्रः कोटीकोटयः सुषमसुषमानामकालविशेषः / तिस्रः कोटीकोव्यः सागरोपमाणां , इतः परं सद्भावेऽपि गणितस्य न तव्यावहारिकमिति नोक्तम् / २'माणे यावता' इति क-पाठः /