________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः॥ थापन्नः कालविभागो ज्ञेय इति / एवमादिरित्यनेनानेकभेदत्वमादर्शयति / कालस्य पुद्गलपरावर्तादेः, सर्वाद्धादिश्वानन्तः काल इति / मनुष्यक्षेत्रपर्यायापन्न इति परिमितदेशवतित्वं कालस्यावगमयति / इह प्रसिद्धनान्यत्रापि वर्तमाना देवतादयो व्यवहरन्ति, कालस्य समूहबुद्ध्याऽङ्गीकृतस्य समयादिविभागो वेदितव्यः इति, असङ्ख्येयत्वमनन्तत्वं च कालस्य भाष्यादेव परिगन्तव्यम् / गणितविषयातीतोऽसङ्ख्येयः, अविद्यमानोऽन्तोऽनन्त इति // 15 // अत्राह-यदि ज्योतिष्का मेरुप्रदक्षिणा नित्यगतयो नृलोके (अ० 4, सू०१४) भवन्ति अथ ये बहिर्नृलोकात् ते कथमित्यत्रोच्यते सूत्रम्-बहिरवस्थिताः॥४-१६ // भा०-नलोका बहियोतिष्काः अवस्थिताः, अव. लोकबहिज्योतिकविचारः त स्थिता इत्यविचारिणः, अवस्थितविमानप्रदेशा अवस्थितले. श्याप्रकाशा इत्यर्थः / सुखशीतोष्णरश्मयश्चेति // 16 // टी०--नृलोकाद् बहिरवस्थिता ज्योतिष्का इत्यादि भाष्यम् / नृलोकादित्यर्थवशाद विभक्तिपरिणतिः। मानुषोत्तरगिरेबहिर्ये सूर्यादयस्तेऽवस्थिताः-न परिभ्रमन्ति स्वभावादेवाविचारिणो देवाः। अवस्थितविमानप्रदेशा इति विमानानां प्रदेशा-बुध्नाः प्रतिष्ठास्थानानि, अवस्थिता विमानप्रदेशा येषां तेऽवस्थितविमानप्रदेशाः निश्चलत्वान्न देवाः परिभ्रमन्त्येवं न विमानानि यथा नृलोक इति प्रतिपादयति, अवस्थितलेश्याप्रकाशा इत्यर्थः / अवस्थिती लेश्याप्रकाशी येषां तेऽवस्थितलेश्याप्रकाशाः, लेश्या-वर्णः,स नृलोकान्तवर्तिनामुपरागादिभिरन्यत्वमपि प्रतिपद्यते, तदहिवर्तिनां तु तदभावादवस्थितपीतवर्णत्वम्, प्रकाशोऽप्यवस्थितस्तेषां योजनशतसहस्रपरिमाणो निष्कम्पत्वादस्तमयोदयाभावाच्चेति, अवस्थितशब्दव्याख्यानाविच्छे. दाभिप्रायेण मूरिरित्यर्थ इति प्रयुक्तवान् / सुखशीतोष्णरश्मयश्चेति / सुखाः शीतोष्णरश्मयो येषां ते सुखशीतोष्णरश्मयः चन्द्राः सवितारश्च, नात्यन्तशीताः शिशिरत्विषः, नात्यन्तोग्णाः किरणमालिनः किरणाः, किन्तु द्वयोरपि साधारणाः स्वभावादेवेत्यतः सुखहेतुत्वात् सुखाः, सर्वशशाङ्काश्च बहिरभिजिता युक्ताः, सवितारश्च पुष्यैरिति // 16 // उक्ता ज्योतिष्काः स्थानादिप्रक्रमेण / अथ तुरीयो देवनिकायः किनामा कतिभेदो वेत्यत्रोच्यते-वैमानिकाः / अथवा तत्राभिहितलक्षणाधिवास विशेपे यस्तुर्यो देवनिकायो यस्तस्य विकल्पव्याख्याप्रसङ्गे लघ्वर्थमादितः पाक स्थितेः प्रतिसूत्रमिदमवोचमित्यध्यकार्षीत, स्थानसम्बन्धेन यानुपदेक्ष्यामः, सर्वे एवते सूत्रम्-वैमानिकाः // 4-17 // भा०. चतुर्थो देवनिकायो वैमानिकाः,तेऽत ऊर्वं वक्ष्यन्ते / विमानेषु भषा वैमानिकाः॥१७॥