________________ 297 सूत्राणि 18-20] स्वोपज्ञभाष्य टीकालङ्कृतम् ... टी०-चतुर्थो देवनिकाय इत्यादि भाष्यम् / चतुर्णा पूरणश्चतुर्थः देवनिकायः-सुरसमूहः नामतो वैमानिकाः,तेऽतः--इतः प्रभृत्यु प्राक् स्थिते वक्ष्यन्ते, विशेषेण सुकृतिनो मानयन्ति विमानानि तेषु भवा वैमानिका देवा इत्यतः प्रतिसूत्रमवचनमधिकारात्, अथवा परस्परस्य भोगातिशयं तत्रस्थं मिमत इति मन्यते वा हिताहितविज्ञानात्, तानि च त्रिविधान्येव भवन्ति-इन्द्रकश्रेणिपुष्पप्रकीर्णकानि / सवेत्रान्वों पारिभाषिकी व्याख्या, तेषु भवा वैमानिका इति // 17 // ते पुनरनेकविशेषर्द्धियुक्ता विमानवासिनो देवा मूलभेदतो द्विविधाःसूत्रम्-कल्पोपपन्नाः कल्पातीताश्च // 4-18 // भा०-विविधा वैमानिका देवाः-कल्पोपपन्नाः कल्पातीताध / वैमानिकानां विध्यम् तान् परस्तात् वक्ष्याम इति // 18 // टी०-कल्पोपपन्नाः इन्द्रादिदशतया कल्पनात् कल्पाः-सौधर्मादयोऽच्युतान्ताः तेषूपपन्नाः कल्पोपपन्नाः, कल्पानतीताः कल्पातीताः उपरिष्ठाः सर्वे ग्रैवेयकविमानपञ्चकाधिवासिनः / द्विविधा वैमानिका इत्यादि भाष्य सुज्ञानं प्रायः / तान् द्विप्रकारानपि परस्तात् प्रभेदतो वक्ष्याम इति // 18 // एतेषु पुनः कल्पाः कथं सन्निविष्टा इत्याह सूत्रम्-उपर्युपरि // 4--19 // भा०-उपर्युपरि च यथानिर्देशं वेदितव्याः / नैकक्षेत्रे नापि तिर्यगघो घेति // 19 // टी-उपर्युपरि चेत्यादि भाष्यम् / कल्पाः सम्बध्यन्ते, न देवा विमानानि वा, योऽयं निर्देशः करिष्यते सौधर्मादिस्तदङ्गीकरणेन वेदितव्याः यथानिर्देशं, नैकक्षेत्रे पर्तिनः कल्पाः, नैकस्मिन् प्रदेशे वर्तन्त इत्यर्थः / नापि तिर्यक प्रतिसन्निवेशेन व्यवस्थिताः, नाधस्तादिति // 19 // ते चामी क्रमात् सूत्रम्-सौधर्मैशान-सनत्कुमार-माहेन्द्र-ब्रह्मलोक-लान्तकमहाशुक्र-सहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु अवेयकेषु विजय वैजयन्त-जयन्तापराजितेषु सर्वार्थसिद्धे च // 4-20 // भा०-एतेषु सौधर्मादिषु कल्पविमानेषु वैमानिका देवा भवन्ति / तद्यथा१ . उपर्युपरि न तिर्यग् नाप्यसमजसं ज्योतिष्कविमानवत् ' इति ग-टी-पाठः / 30