________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 अतः कयाऽपि काका निदर्शनरूपया प्रज्ञाप्यत इत्यावेदयति, तमेवंप्रकारं समयं यस्मादनुपमलक्ष्मीप्रयत्नभाजः परमर्षयः परिहीणच्छमानः समस्तज्ञेयग्राहिणा केवलज्ञानेनावगच्छन्ति स्वरूपतो न पुनर्निर्दिशन्त्यन्यस्मै, परमनिरुद्धत्वादिति अल्पत्वादित्यर्थः / यावत् तत्स्वरूपप्रतिपादनाय भाषाद्रव्याण्यादीयन्ते तावदसङ्ख्येयास्तेऽतिक्रामन्तीत्यर्थः / परमनिरुद्धे हि तस्मिन भाषाद्रव्याणां ग्रहणनिसर्गयोः करणप्रयोगासम्भव इति / कायकरणप्रयोमेण भापाद्रव्याण्यादाय वाक्पर्याप्तिकरणव्यापारेण निसृजति, तयोश्च निसर्गग्रहणविषययोः कर व्यापारयितुं न शक्यतेऽत्यल्पत्वात् , अतः परमनिरुद्धे तस्मिन् भाषाद्रव्याणां ग्रहणनिसर्मासम्भवादवगतिरेव केवला न प्रज्ञापनमस्तीति / अथवाऽऽर्षप्रसिद्धया तुन्नोगदारकपदृशाटि. काननिदर्शनात् समयप्रज्ञापना कार्या / एवं तावत् समयः सर्वकालभेदादिरवसेयः / भा०-ते त्वसङ्ख्येया आवलिका। ताः सङ्ख्येया उच्छ्यासः, तथा निःश्वासः। सोयलवतः पविन्द्रियस्य कल्पस्य मध्यमवयसः स्वस्थमनसः पुंसः प्राणः / ते सप्त स्तोकः / ते सप्त लवः / तेऽष्टांत्रिंशधैं च नालिका / ते वे मुहूर्तः / ते त्रिंश र दहोरात्रम् / तानि पञ्चदश पक्षः / तौ द्वौ शुक्लकृष्णौ मासः। आयालकाद- तो द्वौ मासातुः / ते त्रयोऽयनम् / ते वे संवत्सरः / ते पन्न चन्द्रचन्द्राभिवधितचन्द्राभिवर्धिताख्या युगम् / तन्मध्येऽन्ते चाधिकमासकी। रनर्यसावनचन्द्रनक्षत्राभिर्वर्धितानि युगनामानि / वर्षशतसहस्रं चतुरशीतिगुणिसं पूर्वाङ्गम् / पूर्वाङ्गशतसहस्रं चतुरशीतिगुणितं पूर्वम् / एवं तान्ययुतकमलनलिनकुमुदतुट्यडडाववाहाहाहूहूचतुरशीतिशतसहस्रगुणाः सङ्ख्येयः कालः / टी०- ते चासङ्ख्येयाः समया आवलिका मण्यते, सा च जघन्ययुक्तकासङ्ख्येयकसमयप्रमाणा भवति / ताः सङ्ख्येयाः(४४४६२४७८) सत्य आवलिका एक उच्यासो निश्वासो वा ऊर्ध्वाधोगमनभेदात् / तावुच्छ्यासनिःश्वासावित्थंप्रमाणौ शारीरबलयुक्तस्यानुपहतकरणग्रामस्य नीरुजस्य मध्यवयोऽनुप्राप्तस्य मनोदुःखेनानभिभूतस्य पुरुषस्य प्राणो नाम कालविशेपो भवति, बलवदादिविशेषणानि च प्रतिविशिष्टोच्छासपरिग्रहणाय,अन्यथा कर्तृभेदादनेकरूपाः समुच्छासनिःश्वासा इति न शक्येत प्रागस्वरूपं निरूपयितुमनवस्थितत्वात्, अत एवं प्रकारस्य पुंसो यावुच्छासनिःश्वासाविति / उक्तलक्षणाः प्राणास्ते सप्तसङ्ख्याकाः स्तोको नाम कालविशेषः। ते स्तोकाः सप्त लवोऽभिधीयते। लवानामष्टाधिका त्रिंशल्लवार्धं च नालिका भव. ति। नालिकाद्वयं मुहूर्तः। त्रिंशन्मुहूर्तमहोरात्रम् / पश्चदशभिरहोरात्रैः पक्षः। शुक्लकृष्णौ द्वौ पक्षी मासः / मासद्वयमृतुर्वसन्तादिभेदः / ऋतुत्रयमयनम् / अयनद्वयं संवत्सरः। ते १'तुशगदारुक पदशाटिका' इति क-पाठः / 2 'ऽष्टाधिकात्रिंश' इति क-पाठः / 3 पन्यमध्यमोत्कृष्टपरीत्तयुक्तासंख्यातासंख्यातभेदेनासंख्या तस्य नवविधत्वात्, चतुर्थ चैतत् /