________________ 378 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 व्यतिरिक्तं किश्चिद् द्रव्यमस्ति, कथश्चिद् भेदे वा परस्याभ्युपेतबाधा स्यात्कारलाञ्छनार्थज्ञानवचसो वा वादिनः सिद्धसाध्यतासमास्कन्दनात् सर्वमसमीचीनम् / न चान्धतमसादौ केवलमृगव्यग्रहणमस्त्यभिहितन्यायात्, अपि च " द्रव्यं पर्यायवियुक्तं (तं 1 ), पर्याया द्रव्यवर्जिताः / क कदा केन किंरूपा, दृष्टा मानेन केन वा ? // " नहि विशेषनिरपेक्षो ध्रौव्यांशः सामान्यलक्षणः कश्चिद् विद्यते यो गृह्येत केवलः, न च सामान्यनिरपेक्षः कश्चिद् विशेषो नाम विद्यते य इन्द्रियाणां गोचरतामापद्यते // अथैवमाशङ्केथाःन ब्रूमो नास्ति सामान्यांशः, स हि विद्यमानोऽपि ग्रहणकाले ग्रहीतुमशक्य इति विशेषमात्रग्रहणमेवेति, एवं तर्हि सामान्यांशः स्वशरीरविग्हाद विभावत्वाद् व्योमोत्पलादिवत् कुतो विशेष ग्रहणम् ? / सामान्योपलम्भानुभवविरोधश्व सामान्यशून्यविशेपमात्रग्रहणवादिनः / नापीन्द्रियविषयसङ्करः, चक्षुरादिज्ञानावरणकमेक्षयोपशमविशेषात तादृश एवासो क्षयोपशमो येन समस्तान्येवेन्द्रियाण्येकसामान्यग्रहणे व्याप्रियन्ते, न पुनर्विशिष्टान्यान्यार्थग्रहणे, तथादृश्यमानसामान्यसिद्धिः त्वात् / न चास्ति काचिद् युक्तियेद् विवक्षितं वस्तु सर्वथा वस्त्वन्तरेणासदृर्श स्वरूपेऽवस्थास्यते, सर्वप्रकारमतुल्यत्वाद् बन्ध्यासुतादिवत् , अतो भवान्तरेण तुल्यताऽवश्यमभ्युपेया विवक्षितस्य वस्तुनः सत्त्वमिच्छता / तच्च सामान्यं ध्रौव्यलक्षणम् / न चैतद् बुद्धिपरिकल्पनामात्रे सामान्ये घटते, परिकल्पस्य वस्त्वसंस्पर्शात् तादवस्थ्यं दोषाणाम्, परिकल्पश्चाभूतोऽपि तत्त्वतो वस्तुष्वेव तादृशीं धियमुत्पादयति,नावस्तुषु वाजिविषाणादिष्विति। किमत्र कारणमुपादाय वस्तुविकल्पः प्रवर्तत इति चेत्, तदसत्, तस्य वस्तुनो वस्तुत्वेनानिर्धारितत्वान्नोपादानकारणता, न च सर्वथा वस्तुनः तुल्यतैव, यदि स्यात् ततो वैरूप्यशून्यत्वाद् विवक्षितं वस्तु वस्त्वन्तरादन्यदित्येष प्रत्ययो न स्यात्, केनचिदप्याकारेण भेदाभावात्, अतो भेदमभिलषता प्रेक्षापूर्वकारिणा वैरूप्यमपि केनचिदाकारेणाभ्युपेयम्, एवं चेत् सामान्यविशेषस्वभावं सर्वदा सर्वमेव वस्त्विति प्रतिपत्तव्यम् / न च सामान्यविशेषयोः स्वलक्षणभेदेऽप्यत्यन्तभेदः, शबलरूपत्वात् वस्तुनश्च वस्तुतयाऽपि वस्त्वन्तरातुल्यत्वेऽन्यतरस्यावस्तुत्वप्रसङ्गात् तदविनाभावाच्च द्वितीयस्याप्यभाव इति सर्व शून्यं स्यात्, इष्यत एवेति चेत्, तदयुक्तम्, प्रमाणप्रमेयप्रतिपाद्यप्रतिपादकसद्भावात् / सांवृत एष व्यवहार इति चेत् , तदप्यसत्, संवृतिः प्रमाणमप्रमाणं वा स्यात् ? यदि प्रमाणं ततो बाधकप्रमाणाभावात् परमार्थसत्त्वं प्रत्यक्षादिवत्, अथा . प्रमाणं संवृतिः ततो देवानांप्रियस्य व्यर्थः प्रयासः, प्रमाणप्रतीतिनिबसामान्यविशेष प. न्धत्वात् प्रेक्षापूर्वकारिव्यवहाराणाम् / अथ सकलशून्यताप्रसङ्गभीत्या सा मान्यविशेषयोस्तुल्यत्वमेव वस्तुतयाऽभ्युपेयते ततः सामान्यविषयस्वभाव सर्वमिति व्यपेतशङ्क प्रतिपद्यस्व, परस्परं वा स्वभावविरहाभावात् सामान्यविशेषयोः सङ्कीर्णतायां रूपता