________________ सूत्र 23 ] स्वोपज्ञगाष्य-टीकालङ्कृतम् वीषु रत्नप्रभादिकासु, विमानेषु ज्योतिर्विमानादिषु, तिर्यग् द्वीपसमुद्रेषु, ऊर्ध्व विमानेषु, अधः पृथिवीषु यवधिज्ञानमुत्पन्नं भवति ततः क्रमशः परिसंक्षिप्यमाणं-हीयमानं प्रतिपतति / यस्माद् यद्वीपानपश्यत् तत् तेषामेकं क्रोशं पुनर्न प्रेक्षते शेपं पश्यति, पुनरर्धयोजनं न पश्यत्येवं हीयमानं तावद्धीयते यावदङ्गलासख्येयभागः शेषः, एतदाह-आ अङ्गलस्यासंख्येयभागात् अङ्गलपरिमाणस्य क्षेत्रस्य असंख्येयानि खण्डानि कृतस्य एकस्मिन् असंख्येयभागे यावन्ति द्रव्याणि समवस्थितानि तानि पश्यतीत्यर्थः / ततः कदाचिदवतिष्ठते कदाचित् प्रतिपतत्येव, तान्यपि न पश्यतीत्यर्थः। अङ्गुलशब्दच परिभाषितार्थो द्रष्टव्यः, अन्यथाऽङ्गुलासंख्येयभागादिति भवितव्यम्, अन्येषां त्वेवंविधमेव भाष्यमिति / कथं हीयत इति चेद् ? दृष्टान्तमुपन्यस्यति-परिच्छिन्नेत्यादि / परितः----सर्वासु दिक्षु छिन्ना इन्धनंपलालादि तस्योपादान-प्रक्षेपः तस्य सन्ततिरन्तर्यण प्रक्षेपः, सा विशेष्यते परिच्छिन्नेति, नातः परमिन्धनप्रक्षेपः अतः परिच्छिन्ना इन्धनोपादानसन्ततिः, एतदुभयं पुनरपि शिखाया विशेषणम् , परिच्छिन्ना इन्धनोपादानसन्ततिर्यस्यामग्निशिखायां सा परिच्छिन्नेन्धन पादानसन्ततिः, अग्नेः शिखा अग्निशिखा, परिच्छिन्नेन्धनोपादानसन्तत्यग्निशिखा तया तुल्यमेतद्धीयमानमवधिज्ञान, यथाऽपनीतन्धनानिज्वाला नाशमाशु प्रतिपद्यते तद्वदेतदपीति // ___ भा०-वर्धमानकं यदङ्गलस्यासंख्येयभागादिषूत्पन्नं वर्धते आसर्वलोकातू। अधरोत्तरारणिनिर्मथनासन्नोपात्तशुष्कोपचीयमानाधीयमानेन्धनराश्यग्निवत् // टी-वर्धमानकं यद्गुलासङ्ख्येयभागादिषु / अङ्गुलस्यासंख्येयभागमात्रे क्षेत्रे ततोऽङ्गुलमात्रे ततोऽरत्निमात्रे इत्यादिषूत्पन्नं तावद् वर्धते यावत् सर्वलोको धर्माधर्मद्रव्यद्वयपरिच्छिन्नो व्याप्तो भवति तदा आसर्वलोकात् , कथमिव वर्धते अत आह-अधरोतरेत्यादि / अधरः-अधोवर्ती उत्तर:-उपरिवर्ती तावेवारणी ताभ्यामधरोत्तरारणिभ्यां निर्मथनं-संघर्पणं तेन निष्पन्न-उद्धृतः, तदेवमुत्पन्नोऽवधिवृद्धि गच्छति यथा तथाह-उपात्तेत्यादिना / उपात्तं प्रक्षिप्तं शुष्कमाद्रं न भवति करीपादि तेनोपात्तेन शुष्केण उपचीयमानः वृद्धिं गच्छन्नित्यर्थः, आधीयमानः प्रक्षिप्यमाणोऽन्योऽपि पुनः पुनः इन्धनानां पलालादीनां राशिः-समूहो यत्रानौ सः अधरोतरारणिनिर्मथनोत्पन्नापात्तशुष्कोपचीयमानाधी मानेन्धनराश्यग्निः, तेन तुल्यमेतदिति, यथाऽग्निः प्रयत्नादुपजातः सन पुनरिन्धनलाभाद् वृद्धिमुपगच्छत्येवं परमशुभाध्यबसायलाभादसौ पूर्वोत्पन्नो वर्धत इत्यर्थः // भा०--अनवस्थितं हीयते वर्धते वर्धते हीयते च / प्रतिपतति चोत्पद्यते घेति / पुनः पुनरूमिवत् // १'तानि तानि' इति ग-टी-पाठः। ' निर्मथनोत्पन्नोपात.' इति घ-पाठः /