________________ तस्वार्थाधिगमसूत्रम् [अभ्यायः 1 ____टी-अनवस्थितमिति / नावतिष्ठते कचिदेकस्मिन् वस्तुनि शुभाशुभानेकसंयमस्थानलाभात्, यत आह-हीयते योजनं दृष्ट्वा तस्यैवार्धमवगच्छति तस्याप्यर्धमेवादि, वर्धते चार्धक्रोश दृष्ट्वा क्रोशमवैत्यर्धयोजनं योजनमेवमादि, कदाचिदुभयीमवस्थामनुभवति वर्धते हीयते च, तस्यैव क्रोशस्यैकस्यां दिश्यपरक्रोशो वृद्धिः अन्यस्यां तस्य कोशस्था हीनमिति / अथवा प्रतिपतति चोत्पद्यते चेति कचित् कालान्तर उदितं पुनर्नश्यति पुनश्चोदेति, क्षयोपशमवैचित्र्यात्, पुनः पुनर्नाशोत्पादस्वभावमूर्मिवत् यथा महति सरसि स्वच्छवारिभारिणि पूर्णे प्रबलानिलवेगविक्षिप्यमाणजलेऽदम्रोर्मयः समुपजाताः समासादित रोधसः शमं शनैः शनैर्भजन्ते, पुनश्चाभिघातविशेषात् प्रादुःष्यन्ति, अतो यथोर्मयोऽनवस्थिता एवमवधिज्ञानमपीति // __ भा०-अवस्थितं यावति क्षेत्रे उत्पन्नं भवति ततो न प्रतिपतत्याकेवलप्रा. सेरवतिष्ठते, आभवक्षयाद वा जात्यन्तरस्थायि भवति लिङ्गवत् // 23 // उक्तमवधिज्ञानम् / मनःपर्यायज्ञानं वक्ष्यामः // . दी-अवस्थितमिति / अवतिष्ठते स्म अवस्थितं, यया मात्रयोत्पन्नं तो मात्रांन जहातीतियावत् , एतदाह-यावति क्षेत्र इत्यादि। यावति यत्परिमाणे क्षेत्रेऽङ्गुलासङ्ख्येयभागादावुत्पन्नमासर्वलोकात् तत इति तस्मात् क्षेत्रान्न प्रतिपतति-न नश्यति, सर्वकालमास्ते, कुतोऽवधेर्यावदास्त इतिः उच्यते-आकेवलप्राप्तेः, आमर्यादायाम् / केवलज्ञानं तस्य प्राप्तिः-लाभः आकेवलप्राप्तेर्यावत् केवलज्ञानं न प्राप्नोति, प्राप्ते तु केवले छानस्थिकं ज्ञानं व्यावतते / अथवा मरणात् तदाह-आभवक्षयात्, भवो-मनुष्यादिजन्म यावत् तत्र जीवति तावद, भवति ततः परं न, तसाद् भवक्षयात्, ततः परं नश्यति / अथवा जात्यन्तरमपि गच्छन्तं जीवं न मुश्चति तदवधिज्ञानं, तेनान्वित एवं गच्छति,लिङ्गवजात्यन्तरं (जात्यन्त)रावस्थायि वा भवतीत्येतदाह-जातेरन्या जातिः जात्यन्तरं तत्रावतिष्ठति तच्छीलं च, कथमिव तदादाय गच्छति ? आह-लिङ्गवत् पुरुषवेदादि लिङ्गं त्रिधा तेन तुल्यं वर्तत इति लिङ्गवत् , यथा इह जन्मन्युपादाय पुरुषवेदं जन्तुर्जात्यन्तरमाधावत्येवमवधिमपि // // 1-23 // प्रस्तुतवस्तुपरिसमाप्ति सूचयन्युक्तमवधिज्ञानमित्यनेन उक्तं लक्षणतो विधानतश्व अवधिज्ञानं न पुनर्वाच्यमिति, तदनन्तरानुसारि मनःपर्यायज्ञानं वक्ष्यामः सूत्रम्-ऋजुविपुलमती मनःपर्यायः // 1-24 // / भा०-मनःपर्यायज्ञानं द्विविधम्-ऋजुमतिमनःपर्यायज्ञामनापर्यायस्य भेदौ नम विपलमतिमनःपर्यायज्ञानं च // 24 // अत्राह-कोऽनयोः प्रतिविशेष इति ? / अत्रोच्यते१.रोधस्सु' इति स्न-पाठः / 2 चिह्नितोऽयं ख-पाठः।