________________ सूत्रं 31]. स्वोपज्ञभाष्य-टीकालङ्कृतम् 417 पर्याया असत्त्वाद्रव्यत्वानात्मत्वाचेतनत्वादयः, तद्रव्यक्षेत्रकालभावसम्बन्धजनिताश्च द्रव्यपर्यायवृत्तिभेदाः, तत्र द्रव्यार्थादेशात् स्वद्रव्यतया द्रव्यत्वम्, पृथिव्यादित्वेनाद्रव्यत्वं तद्विशेषैश्च घटादिभिः, क्षेत्रतोऽसङ्ख्याताकाशदेशव्यापितया, न सर्वव्यापितया, कालतः स्वजात्यनुच्छेदादभिन्नकालता, पर्यायादेशाद्द्घटादिविज्ञानदर्शनभेदाः क्रोधाद्युत्कर्षापकर्षभेदाच, तथाऽनन्त कालवृत्तस्ववर्तनाभेदात् कालभेदः, भावतो ज्ञत्वं क्रोधादिमत्त्वं च, एवं चतुर्थो विकल्पः बहवो द्रव्यार्थपर्यायार्थयोवृत्तिभेदाः सर्वेऽपि तस्यांशाः, तैर्द्रव्यपर्याय रूपैर्वक्तमिष्यमाणो नानारूप आत्मोच्यते / भावना तु स्यादस्ति च नास्ति च, द्रव्यार्थभेदेन चैतन्यसामान्येनास्ति, चैतन्यविशेषविवक्षायां वाऽस्त्येकोपयोगत्वात, पर्यायतस्तु अचैतन्येन नास्ति, घटोपयोगकाले वा पटाधुपयोगेनासन्, चैतन्येन तद्विशेषेण वा वर्तमान एव तदभावेन तद्विशेषाभावेन वर्तते इत्युभयाधीनस्तस्यात्मा, अन्यथाऽऽत्माभाव एव स्यात् / एवं सर्वसिद्धान्तेषु पदार्थाः परस्परविरुद्धार्थत्वात् तदतद्रूपसमुच्चयात्मकाश्चतुर्थविकल्पोदाहरणीयाः // पञ्चमविकल्पस्तु स्यादस्ति चावक्तव्यश्चात्मेति, तत्रानेकद्रव्यपर्यायात्मकस्य सतः कश्चिद् * द्रव्यार्थविशेषमाश्रित्यास्तीत्यात्मनो व्यपदेशः, तस्यैवान्यात्मद्रव्यपञ्चमो विकल्पः सामान्यं तद्विशेष द्वयं वाऽङ्गीकृत्य युगपद्विवक्षायामवक्तव्यता, स्फुट __तरमेतद् विभाव्यते, स्यादस्त्यात्मा द्रव्यत्वेन द्रव्यविशेषेण वा जीवस्वेन मनुष्यत्वादिना वा द्रव्यपर्यायसामान्यमुरीकृत्य, वस्तुत्वावस्तुत्वसत्त्वासत्त्वादिना विशेषेण वा मनुष्यत्वामनुष्यत्वादिना युगपदभेदविवक्षायामवाच्यः, यतः सर्वेऽपि तस्यैकस्यात्मनस्तदैव विकल्पाः सम्भवन्तीति // षष्ठविकल्पोऽपि त्रिभिरात्मभिद्यशः स्यानास्ति चावक्तव्यश्चात्मेति, नान्तरेणात्मभेदं वस्तुगतं नास्तित्वमवक्तव्यरूपानुविद्धं शक्यं कल्पयितुं वस्तुनः, तथापि षष्ठो विकल्पः सद्भावात् तत्र नास्तित्वं पर्यायाश्रयम्, स च पर्यायो युगपवृत्तः क्रमप्र . वृत्तो वा, सहावस्थाय्यविरोधादात्मनो धर्म एककाल एव, यथा चेतनो. पयोगवेदनाहर्षसम्यवहास्यरतिपुरुषवेदायुर्गतिजात्यादिसत्त्वद्रव्यत्वामूर्तत्वकर्तृत्वभोक्तृत्वान्यखानादित्वासङ्ख्यातप्रदेशत्वनित्यत्वादिः,क्रमवर्ती तु क्रोधादिदेवत्वादिवालत्वादिज्ञानितादिः खस्थानेऽनेकभेदवृत्तः, तत्रैकोऽवस्थितो द्रव्यार्थी जीवनामा नैवास्ति कश्चिचेतनाव्यतिरिक्तः क्रोधादिक्रमवृत्तधर्मरूपनैरन्तर्यमात्रव्यतिरिक्तो वा, अत एव तु धर्मास्तथासन्निविष्टाः सत्त्वव्यपदेशव्यवहारभाजो भवन्तीति, अतो नास्ति पर्यायार्थादेवंविधो द्रव्यार्थस्य कश्चिदंशो नास्तीति तेन रूपेणाभावात्, न पुनः सर्वथैव नास्तित्वम्, विशिष्टस्याभावस्य विवक्षितत्वाद, पर्यायांशः सर्वार्थज्ञातृत्वांसत्सर्वव्यापारविनियोगात् सर्ववस्तुत्वेन सन्निति द्रव्यार्थाशः, आभ्यां सह विवक्षायामवाच्य इति द्वितीयोऽशः // १'वाऽन्य आत्म.' इति ग-पाठः।२'वस्वादिज्ञातादिः देवत्वादिस्वस्थाने' इति क-ख-पाठः। ३त्वासर्व.' इति क-पाठः।