________________ तस्य त्वग्रहणे यत् स्यात् , क्षुद्रप्राणिविनाशनम् / ज्ञानध्यानोपघातो वा, महान् दोषस्तदैव तु // 7 // " -श्रीशान्त्याचार्यकृतश्रीउत्तराध्ययनसूत्र( अ० 3, पत्रा० 180 )वृत्ती "आह वाचकः यावत् परगुणदोषपरिकीर्तने व्यापृतं मनो भवति / तावद् वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् // 1 // " --श्रीशान्त्याचार्यकृतश्रीउत्तराध्ययनसूत्र ( अ० 4, पत्रा० 190-191 )वृत्ती “आह च वाचक:-'इह चेन्द्रियप्रसक्ता निधनमुपजग्मुः ' तयथा—गार्यः सत्यकि कर्द्विगुणं प्राप्तोऽनेकशास्त्रकुशलोऽनेकविद्यावलसम्पन्नोऽपि / " -श्रीशान्त्याचार्यकृतश्रीउत्तराध्ययनवृत्तौ( अ० 4, पत्रा० 191 )वृत्ती “उक्तं च वाचकैः मङ्गलैः कौतुकैर्योग-विद्यामन्त्रस्तथापधः / न शक्ता मरणात् त्रातुं, सेन्द्रा देवगणा अपि // 1 // " -श्रीशान्त्याचार्यकृतश्रीउत्तराध्ययनसूत्र(अ०४, पत्रा० 191 )वृत्ती " वाचकेनाप्युक्तम् यद् रागदोषवद् वाक्यं, तत्वादन्यत्र वर्तते / / सावधं वाऽपि यत् सत्य, तत् सर्वमनृतं विदुः // 1 // ", -तत्त्वार्थाधिगमसत्रस्य(अ०७, सू०९)श्रीसैद्धसेनीयटीकायाम् श्रीउमास्वातिवाचकानां समयःजन्ममरणशृङ्खलाखिद्यमानभव्यानां मोक्षमार्गोपदेष्टारः सहीतृष्वनन्यतमा इमे सूरयः कदेदं भूमण्डलं भूषयामासुरिति प्रश्नोऽधुना विचार्यते / सूरिवर्यकृतभाष्यान्तदत्तप्रशस्तित इदं स्पष्टं भवति यदिमे सूरय उच्चनागरशाखीयाः / अस्याः शाखाया उत्पत्तिस्तु श्रीआर्यदिनशिष्यश्रीआर्यशान्तिश्रेणिकसमये। आर्यदिनाः श्रीवीरात् ४२१तमेऽन्दे जाताना आर्येन्द्रदिनानां शिष्याः। अनेन श्रीउमास्वातयः श्रीवीरात् पश्चमशताब्दीपूर्वकालीना नेत्यनुमीयते / श्रीधर्मसागरगणिविरचितायां श्रीतपागच्छपट्टावलीसूत्रवृत्तौ तु उल्लेखो यथा ___ "श्रीआर्यमहागिरिसुशिष्यो बहुलबलिस्सही यमलभ्रातरौ / तत्र पलिस्सहस्य शिष्यः स्वातिः, तत्त्वार्थादयो ग्रन्थास्तु तत्कृता एव संभाव्यन्ते / तच्छिष्यः श्यामा. 1 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यकृतसिद्धहेमवृत्तौ ( अ०२, पा०२, 2039) " उपोमास्वाति सङ्ग्रहीतारः, उपजिनभद्रक्षमाश्रमणं व्याख्यातारः, तस्मादन्ये हीना इत्यर्थः" २इदं च प्रज्ञापनानन्दीपट्टावल्योः अनुगामि / 3 संभावना तु नामसादृश्यभ्रमेण /