SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ सूत्रं 1 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 137 यिकः पूर्वस्वामिसाधर्म्यात् तदन्यकर्माश्रयत्वाच्च, ततः पारिणामिको महाविषयत्वादत्यन्तमेदाच पूर्वकेभ्य इति / सान्निपातिकोऽपि लाघवैषिणा पृथक नोपात्तः,मिश्रग्रहणादेव प्रतिलब्धः, यत एषामेवौपशमिकादीनां द्विकादिसंयोगेन सान्निपातिको निष्पद्यते पविंशतिविकल्पः, तत्रैकादश विरोधित्वादसम्भवतस्त्यक्ता विकल्पाः, पञ्चदशोपाताः प्रशमरतौ सम्भविनः, "पृष्ठव सान्निपातिक इत्यन्यः पञ्चदशभेदः" (प्रशम०प०१९७) इति वचनात् ,ते च विकल्पाः पञ्चदश औदयिकक्षायोपशमिकपारिणामिकास्त्रयोऽपि युगपदेकस्मिन् निपतन्ति जन्ती, नारकतियेमनुष्यदेवगतिभेदेन चैते चत्वारो विकल्पाः, तथौदायिकौपशमिकक्षायोपशमिकपारिणामिकाः कचिदकृतत्रिपुञ्जोपशमसम्यक्त्वसद्भावाद गतिभेदेनैव चत्वारो विकल्पाः, पुनरौदयिकक्षायिकक्षायोपशमिकपारिणामिकाः कचित् क्षायिकसद्भावात् श्रेणिकादिवद् गतिभेदतः, पुनश्चौदयिकोपशमिकक्षायिकक्षायोपशमिकपारिणामिकाः दर्शनसप्तकवर्ज समस्तमोहनीयोपशमाच्छेषकर्मक्षयोपशमादित्वे सति मनुष्यगतावेवोपशमश्रेणिसद्भावे सत्येको विकल्पः, तथा औदयिकक्षायिकपारिणामिका एक एव भङ्गः, केवलिनो मनुष्यत्वकैवल्यजीवत्वाप्तः, तथा क्षायिकपारिणामिकावेको भङ्गः, सिद्धे केवलसम्यक्त्वादिजीवत्वतः, पञ्चदश सान्निपातिका भावभेदाः पञ्चकचतुष्कत्रिकद्विकसंयोगनिष्पन्नाः चतुरादिगतिभेदैमिश्रग्रहणालब्धाः, मिश्रग्रहणेन च सान्निपातिकः संयोगमात्रं परिगृह्यते, न क्षयोपशमाविति, कृतसमासयोश्च पूर्वयोनिर्देश उत्पत्तिविगमकालसाम्यात् संहतोत्तर कारणत्वाच्च, औपशमिकक्षायिको हि संहितो मिश्रस्य कारणीभवतः, मिश्रे चासमासकरणं स्वामिबाहुल्यप्रतिपिपादयिपयाऽकारि, पूर्वभावद्वयवर्तिभ्यो जीवेभ्यो भूयिष्ठाः क्षायोपशमिकभावभाजः प्राणिनः, चरमयोः पृथकारण जीवाजीवसाधारणत्वख्यापनार्थम् , पूर्वकास्त्रयो जीवानामेव, इतरौ तु साधारणो, समासश्चावियोगप्रचिकाशयिपयाऽनयोद्वयोरपि / अत्र चाद्यास्त्रयो भावाः कर्मविधातापेक्षाः प्रादुःप्यन्ति, बहलरजोवितानविधाते सति तिग्मरश्मेर्दीधितिकलापोन तिवत् , स पुनर्विघातो द्विविधःस्ववीयांपेक्षो देशक्षयः कर्मणः सर्वक्षयश्च, कर्मव्यापारापेक्षश्चतु (इत्य?)र्थः, स्वोपात्त कर्मोदयात् गत्यादयो भावाः समुपजायन्त आत्मनः सुरापानजनितनेत्यादि विकारवत् , मदोद्रेकान्नत्यति हसति रोदति गायति क्रुध्यति च यथा शीलवानपि तथा गत्यादिकर्मोद्रेकाज्जीवस्तां तां विक्रियां प्रतिपद्यते गतिकपायादिकाम् / पारिणामिकस्तु निर्निमित्तः, स्वार्थे प्रत्ययविधानात् , परिणाम एव पारिणामिको राक्षसवदिति / / ___ अधुना भाष्यमनुस्रियते-अत्रेति / द्वितीयाध्यायावसरे शिष्य आह प्रथमाध्यायेऽभिहितं भवता जीवादीनि सप्त तत्त्वानि, तत्प्रतिपत्तिः सम्यक्त्वम् , इतिशब्दः शब्दपदार्थः, कः ? उक्तमात्रस्मरणात् तत्रंति तेषु तत्त्वेपु निर्धार्यताभादावुपन्यस्तो जीवः क इति विस्वरूपः, किंसतत्वः, किमसौ द्रव्यं, गुणः, कर्मेति सन्दिहानस्य प्रश्नः, कथंलक्षणां चति द्वितीयः, प्रश्नः कथमिति केन प्रकारेण किमनपायिना सता लक्षणेन सर्वास्ववस्थासु गम 'वृत्यादि ' इति क-ख-पाठः /
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy