________________ सूत्रं 3] स्वोपज्ञमाष्य-टीकालङ्कृतम् यतः सातसम्यक्त्वहास्यादिकाः प्रकृतयो विविधास्तासां फलमपि विविधमेवेति / तथा ज्ञानावरणाद्या अपि विविधास्तत्फलमपि विविधमुच्यते, पुण्यमनुग्रहकारि सातादि, पापमुपघातकारि ज्ञानादिगुणानाम्, तयोः पुण्यपापयोः फलं-खरसविपाकरूपं पुण्यपापफलम्, तदनुभवतो जीवस्योपभुञ्जानस्य, अनु पश्चादर्थे, पूर्व ग्रहणं पश्चात् फलोपभोग इति / कथमनुभवत इत्याह-ज्ञानदर्शनोपयोगस्वाभाव्यात्, ज्ञानदर्शने व्याख्याते तयोः खाभाव्यं तस्मात् ज्ञानदर्शनोपयोगस्खाभाव्यादिति / एतदुक्तं भवति–यदा यदोपभुङ्क्ते तदा तदा चेतयते सुख्यहं दुःखितोऽहमित्यादि, साकारानाकारोपयोगद्वयसमन्वितत्वादवश्यतया चेतयत इति, उत्तरग्रन्थेनापि सम्बन्धोऽस्य / तानि तानीत्यादि / ज्ञानदर्शनोपयोगस्खामाव्यादेव तानि तानि परिणामान्तराणि याति न तु ताभ्यां रहित इति / तानि तानीति मुहूताभ्यन्तरेऽपि - मनसश्चलत्वाद् बहूनि गच्छति, तानि चेह शुभानि ग्राह्याणि, यतो दर्शन सम्प्राप्नोति शुभाज्ञा(?)मास्कन्दनिति, तेषां बहुत्वाद् वीप्सया निर्दिशति / अथवा यान्येव पूर्वाण्यध्यवसायान्तराणि तान्येव पराध्यवसायतया वर्तन्त इत्यन्वयं दर्शयति–परिणामश्चानेकरूपो विज्ञानादिस्वभावः चेतनाचेतनद्रव्यगतः, तत्राचेतनः परमाण्वादीनां शुक्लादिः, चेतनस्य तु विज्ञानदर्शनादिविषयस्वरूपपरिच्छेदात्मकः / तथा देवाद्यवस्था पुद्गलात्मिका अविवक्षितचेतनाभावाऽचेतनास्वभावा वेति / अतः परिणामस्य व्यभिचारे विशेषणोपादानमर्थवत्पश्यन्नुवाचेदं परिणामोऽध्यवसायरूप इति / तस्य स्थानान्तराणि मलीमसमध्यतीवाणि, शुमे जघन्ये वर्तित्वात् ततो विशुद्धतरं स्थानमन्यदारोहति, ततोऽपि विशुद्धतममपरमधिगच्छतः प्राप्नुवतो वर्धमानशुभपरिणतेरित्यर्थः, अनेन च गच्छत इति समस्तमिदं चतुर्विधसामायिकोत्पादकाण्डं सूचितं भवति // "सत्तण्हं पयडीणं अन्भिन्तरओ उ कोडिकोडीए / काऊणःसागराणं जइ लहइ चउण्णमेगयरं // "' -विशेषावश्यके गा० 1193 ' अत्र बहु वक्तव्यमित्यतः प्रकृतोपयोगि केवलमुच्यते / स खलु जीवस्तानि शुभान्य ध्यवसायान्तराण्यास्कन्दननाभोगनिर्वर्तितेन यथाप्रवृत्तिकरणेन तामुत्कृष्टां निसर्गाध्यवसाय साय कर्मस्थितिमव हास्य कोटीकोट्याः सागरोपमानामन्तः पयंस्तावत् प्रापप्राप्तिः ___ यति यावत् तस्या अपि पल्योपमासङ्ख्येयभागः क्षपितो भवति तस्मिन् स्थाने प्राप्तस्यातिप्रकृष्टधनरागद्वेषपरिणामजनितः वज्राश्मवद् दुर्भेदकठिनरूढगूढग्रन्थिर्जायते, तत्र कश्चिद् भव्यसत्त्वस्तं भित्त्वाऽपूर्वकरणबलेन प्राप्तानिर्वृत्तिकरणस्तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमासादयति, कश्चिद् ग्रन्थिस्थानाधो निवर्तते, कश्चित् तत्रैवावतिष्ठते, न परतो नाधः प्रसर्पतीति / अत्र चोपदेष्टारमन्तरेण यत् सम्यक्त्वं तन्नैसर्गिकमाचक्षते प्रवचनवृद्धाः / 1 सप्तानां प्रकृतीनां आभ्यन्तरं तु कोटिकोटयाः। कृत्वा सागरोपमाणां यदा लभते चतुर्णामेकतरत् //