SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 38 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 प्रतिषिद्धश्च कर्ता / तदपि वा कर्मत एव बध्यते कर्मत्वादिदानीन्तनकर्मवत् / एवंविधस्यास्योपात्तस्य कर्मणः फलमनुभवत इति / किमपेक्षं पुनस्तत्फलमाह-बन्धनिकाचनोदय निजेरापेक्षामिति / बन्धो नाम यदाऽऽत्मा रागद्वेषस्नेहलेशावलीढस्थितिबन्धादि. दि. सकलात्मप्रदेशो भवति तदा येष्वेवाकाशदेशेष्ववगाढस्तेष्वेवावस्थितान् - कार्मणविग्रहयोग्याननेकरूपान् पुद्गलान् स्कन्धीभूतानाहारवदात्मनि परिणामयति सम्बन्धयतीति स्वात्मा ततस्तानध्यवसायविशेषाज्ज्ञानादीनां गुणानामावरणतया विभजते हंसः क्षीरोदके यथा, यथा वा आहारकाले परिणतिविशेपक्रमवशादाहर्ता रसखलतया परिणतिमानयत्यनाभोगवीर्यसामर्थ्यात्, एवमिहाप्यध्यवसायविशेषात् किश्चिद् ज्ञानावरणीयतया किश्चिद् दर्शनाच्छादकत्वेनापरं सुखदुःखानुभवयोग्यतया परं च दर्शनेचरणव्यामोहकारितयाऽन्यन्नारकतिर्यअनुष्यामरायुष्केनान्यद् गतिशरीराद्याकारेणाऽपरमुच्चनीचगोत्रानुभावेनाऽन्यद् दानाद्यन्तरायकारितया व्यवस्थापयति / एष प्रकृतिबन्धः। स्थितिबन्धस्तु, तस्यैवं प्रविभक्तस्य अध्यवसायविशेषादेव जघन्यमध्यमोत्कृष्टां स्थिति निवर्तयति ज्ञानावरणादिकस्यैष स्थितिबन्धः / अनुभावबन्धस्तु, कृतस्थितिकस्य स्वस्मिन् काले परिपाकमितस्य याऽनुभूयमानावस्था शुभाशुभाकारेण घृतक्षीरकोशातकीरसोदाहृतिसाम्यात्सोऽनुभाववन्धः / प्रदेशबन्धस्तु, अनन्तानन्तप्रदेशान् स्कन्धानादायैकैकस्मिन् प्रदेशे एकैकस्य कर्मणो ज्ञानावरणादिकस्य व्यवस्थापयतीत्येष प्रदेशबन्ध इति / निकाचना तु स्पृष्टानन्तरभाविनी, स्पृष्टता तु नोक्ता भाष्यकारेण पृथग् निकाचनामेंद एवेतिकृत्वा / कथमिति चेत्, भावयामः, बद्धं नामात्मप्रदेशैः सह श्लिष्टं, यथा सूचयः कलापीकृताः परस्परेण बद्धाः कथ्यन्ते, ता एवाग्नौ प्रतिक्षिप्तास्ताडिताः समभिव्यज्यमानान्तराः स्पृष्टा इति व्यपदिश्यन्ते,ता एव यदापुनः पुनः प्रताप्य घनं घनेन ताडिताःप्रनष्टस्वविभागाएकपिण्डतामितास्तदा निकाचिता इति व्यपदेशमश्नुवते, एवं कर्माप्यात्मप्रदेशेषु योजनीयम् / तस्यैवं निकाचितस्य प्रकृत्यादिबन्धरूपेणावस्थितस्य उदयावलिकाप्रविष्टस्य प्रतिक्षणमुदयमादर्शयतो याऽवस्था शुभाशुभानुभावलक्षणा स उदयो विपाक इति / उदयानुभावसमनन्तरमेवापेतस्नेहलेशं परिशटत् प्रतिसमयं कर्म निर्जराव्यपदेशमङ्गीकरोतीति / बन्धादयः कृतद्वन्द्वास्ता अपेक्षत इति कर्मण्यण् / बन्धनिकाचनोदयनिजेरापेक्षं, किं तत् फलं, कथं पुनस्तत्फलं बन्धाद्यपेक्षते ? उच्यतेयतो बन्धादिष्वसत्सु न तत्सम्भव इति / क ? अनुभवतो, नन्वभिहितमनादौ संसार इति, स पुनः किंभेद इति एतत् कथयति-नारकेत्यादि / नारकतिरश्चोर्योनिः-उत्पत्तिस्थानम्, तच्च द्वितीये वक्ष्यत इति / मनुष्याचामराश्च तेषां भवः-प्रादुर्भावस्ते भवन्ति यत्र / ग्रहणानि-आदानानि तच्छरीरग्रहणानि इत्यर्थः / तेषु च तेषु भवेषु अनादिसंसारात्मसु, विविधमित्यनेकविधम्, १'तीति ततः' इति ग-पाठः / 2 'दर्शनावरण' इति ख-टी-पाठः / 3 'समभिपद्यमानान्तरा' इति खटी-पाठः / 4 'कानुभवो' इति क-ख-पाठः /
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy