________________ 266 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः३ योःषइविधा इत्यादि / क्षेत्र-जाति-कुल-कर्म-शिल्प-भाषाभेदेन,तत्र क्षेत्रार्या इत्यादि सुज्ञानम्। जात्यार्या इक्ष्वाकव इत्यादि / सर्व एते जातिभेदाः केनचिनिमित्तान्तरेणाध्यवसेयाः / कु. लार्या इत्यादि / अत्रापि निमित्तभेदेन भिद्यन्ते / अपरे परिभाषन्ते-पित्रन्वयो जातिः, मात्रन्वयः कुलम् / कार्या इत्यादि / अनाचार्य के किल कर्म तत्रार्याः कर्मायोः शिल्पार्या इत्यादि / आचा र्योपदेशात् शिक्षितं शिल्पं तन्तुवायादि तत्रार्याः शिल्पार्याः / भाषा नामेत्यादि / शिष्टाः सर्वातिशयसम्पन्ना गणधरादयः तेषां भाषा संस्कृतार्धमागधिकादिका च, तत्र शिष्टभापानियता अकारादयो वर्णा विशिष्टेन पौर्वापर्येण सन्निवेशिता यस्य शब्दप्रधानसंव्यवहारस्यासौ शिष्टभाषानियतवर्णस्तं लोकरूढस्पष्टशब्दं लोकरूढः-अत्यन्तप्रसिद्धःसंव्यवहारेषु स्पष्टःस्फुटो नाव्यक्तो बालभाषावत् लोकरूढः स्पष्टः शब्दो यस्मिन् संव्यवहारे तमेवंविधम् , पञ्चविधानामप्यार्याणां क्षेत्रादिभेदभाजामनन्तरोक्तानां संव्यवहारमागच्छ याहीदं कुरु मै कार्षीरित्येवमादिकं भाषन्ते ये ते भाषायोः // भा०-अतो विपरीता म्लिशः // ____टी०-उक्तक्षेत्र-जाति-कुल-कर्म-शिल्प-भाषाव्यतिरिक्तक्षेत्रादिषटकभाजः सर्वे म्लिशो भवन्ति, शक-यवन-किरात-काम्बोज-बाहीकादयोऽनेकभेदाः, तथाऽन्तरद्वीपकाः फिल म्लेच्छा एव, क्षेत्रादिषट्कविपर्यासात् / भा०–तद्यथा-हिमवतः प्राक् पश्चाच्च चतसृषु विदिक्षुत्रीणि अन्तरद्वीपकाः - योजनशतानि लवणसमुद्रमवगाह्य चतमृणां मनुष्यविजातीनां चत्वारोऽन्तरद्वीपा भवन्ति, त्रियोजनशतविष्कम्भायामाः / तद्यथा-एकोरुकाणां आभासिकानां लालिनां विषाणिनामिति 1 / चत्वारि योजनशतान्यवगाह्य चतुर्योजनशतायामविष्कम्भाः। एवमेव हयकर्णानां गजकर्णानां गोकर्णानां शकु. लीकर्णानामिति 2 / पञ्च योजनशतान्यवगाह्य पश्चयोजनशतायामविष्कम्भा एवान्तरद्वीपाः। तद्यथा-आदर्श-मेष-हय-गजमुखनामानः३। षड् योजनशतान्यवगाह्य तावदायामविष्कम्भा एवान्तरद्वीपाः। तद्यथा-अश्व-हस्ति-सिंह-व्याघ्रमुखनामानः। सप्त योजनशतान्यवगाह्य सप्तयोजनशतायामविष्कम्भा एवान्तरद्वीपाः / तद्यथाअश्वकर्ण-सिंहकर्ण-हस्तिकर्ण-कर्णप्रावरणनामानः५। अष्टौ योजनशतान्यवगाह्या. ष्टयोजनशतायामविष्कम्भा एवान्तरद्वीपाः / तद्यथा-उल्कामुख-विद्युजिह्व-मेषमुख-विद्युद्दन्तनामानः 6 नव योजनशतान्यवगाह्य नवयोजनशतायामविष्कम्भा एवान्तरदीपा भवन्ति / तद्यथा-घेनदन्त-गूढदन्त-श्रेष्ठंदन्त-शुद्धदन्तनामानः / / 'एवान्तरद्वीपाः, तद्यथा' इति घ-पाठः / 2 गजमुखानां व्याघ्रमुखानामादर्शमुखानां गोमुखानामिति' इति ध. पाठः / 3 'अश्वमुखानां हस्तिमुखानां सिंहमुखानां व्याघ्रमुखानामिति' इति घ-पाठः / 4 / सप्त शतान्यवगाय' इति क-पाठः / 5. घनदन्त-श्रेष्ठदन्त' इति क-पाठः / 6 'विशिष्ठदन्त' इति घ-पाठः /