SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 267 सूत्रं 16 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् एकोरुकाणामेकोरुकद्वीपः / एवं शेषाणामपि स्वनामभिस्तुल्यनामानो वेदितव्याः / शिखरिणोऽप्येवमेवेत्येवं षट्पञ्चाशदिति // 15 // टी.-तद्यथा-हिमवतःप्राक् पश्चाच विदिक्षु इत्यादि भाष्यम् / हिमवतः प्राग्भागे पश्चाद्भागे च विदिक्षु पूर्वोत्तरादिकासु चतुसृषु, त्रीणि योजनशतानि लवणजलधिमवगाह्य द्वीपकाः प्रथमतः सन्निविष्टास्तासां मनुष्यजातीनामेकोरुकादिकानाम्, तत्र पूर्वोत्तरस्यां दिशि त्रीणि योजनशतान्यवगाह्य लवणसागरजलं त्रिशतायामविष्कम्भः प्रथम एकोरुकाभिधानो द्वीप एकोरुकपुरुषाणामधिवासः द्वीपनामतः पुरुषनामानि, ते तु सर्वाङ्गोपाङ्गसुन्दरा दर्शनमनोरमणाः नैकोरुका एवेत्येवं शेषा अपि वाच्याः, तथा दक्षिणपूर्वस्यां दिशि लवणजलमवगाह्य त्रीणि शतानि त्रिशतायामविष्कम्भः प्रथमो द्वीप आभासिकाभिधान आभा. सिकमनुष्यावासः, तथा दक्षिणापरस्यां दिशि हिमवतस्त्रीणि शतानि लवणजलमवगाह्य त्रिशतायामविष्कम्भो लाङ्ग्रलिकाभिधानः प्रथमद्वीपो लाङ्गलिकमनुष्यावासः, तथोत्तरापरस्यां त्रीणि शतान्यवगाह्य लवणजलं त्रिशतायामविष्कम्भः प्रथमद्वीपो वैपाणिकाभिधानः वैषाणिकमनुष्यावासः। एवं हयकर्ण-गजकर्ण-गोकर्ण-शष्कुलीकर्णाश्चत्वारि योजनशतान्यवगाह्य हिमवतो लवणोदधिं पूर्वोत्तरादिकासु विदिक्षु चतुर्योजनशतायामविष्कम्भाश्चत्वारो द्वीपा भवन्ति, एवं शेपचतुष्काण्यपि विभजनीयानि यावत् सप्तमो द्वीपः शतानि नवावगाह्य लवणजलधिं नवयोजनशतायामविष्कम्भो विदिशि विदिशि भवतीति,आदर्शमुख-मेण्मुख-हयमुख-गजमुखाः अश्वमुख-हस्तिमुख-सिंहमुख-व्याघ्रमुखाः अश्वकर्ण-सिंहकर्ण-हस्तिकण-कर्णप्रावरणाः उल्कामुखविद्युजिह्व-मेपमुख-विद्युदन्ताः घनदन्त-गूढदन्त-विशिष्टदन्त-शुद्धदन्ताख्याः।एते च युग्मप्रसवाः पल्योपमासङ्ख्येयभागायुपोऽष्टधनुःशतोचाः पुरुषा भवन्ति / एवमेवाष्टाविंशतिरन्तरद्वीपकानां हिमवगिरिप्रागपरपर्यन्तप्रवाहा भवन्त्युक्तेन न्यायेन / तथैरावतक्षेत्रविभागकारिणः शिखरिणोऽ. प्येवमेव पूर्वोत्तरादिविदिक्षु क्रमेणामुनैव नामकलापेन चान्तरद्वीपकानामष्टविंशतिर्भवत्येकत्र षट्पञ्चाशदन्तरद्वीपका भवन्ति / एतच्चान्तरद्वीपकभाष्यं प्रायो विनाशितं सर्वत्र कैरपि दुर्विदग्धैर्येन पण्णवतिरन्तरद्वीपका भाष्येषु दृश्यन्ते / अनार्ष चैतदध्यवसीयते जीवाभिगमादिषु षट्पञ्चाशदन्तरद्वीपकाध्ययनात्, नापि वाचकमुख्याः सूत्रोल्लङ्घनेनाभिदधत्यसम्भाव्यमानखात्, तस्मात् सैद्धान्तिकपाशैविनाशितमिदमिति // 15 // तदेतस्मिन्नार्यानार्य विकल्पे मनुष्यक्षेत्रे काः कर्मभूमयोऽकर्मभूमयो वेत्यत आहसूत्रम्-भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः॥३-१६॥ भा०-मनुष्यक्षेत्रे भरतैरावतविदेहाः पञ्चदश कर्मभूमयो भवन्ति / अन्यत्र देवकुरुत्तरकुरुभ्यः। १'आभाषिका' इति क-पाठः /
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy