________________ अवग्रहाद्या तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 तत् पुनरिन्द्रियनिमित्तमनिन्द्रियनिमित्तं वा ज्ञानं किमेकरूपमुतास्ति कश्चिद् भेदकलापः 1 / अस्तीत्याह / यद्यस्ति ततो भण्यताम् / उच्यते सूत्रम्-अवग्रहहापायधारणाः॥ 1-15 // भा०-तदेतत् मतिज्ञानमुभयनिमित्तमप्येकशश्चतुर्विधं भवति। तद्यथा -अवग्रह ईहा अपायो धारणा चेति / टी-तदेतत् मतिज्ञानं लक्षणविधानाभ्यां यदुक्तम् उभयनिमित्तमिन्द्रियनिमि __ त्तमनिन्द्रियनिमित्तम् अपिशब्दादिन्द्रियानिन्द्रियनिमित्तमपि // अथे "न्द्रियानिन्द्रियनिमित्तसमुदायरूपेण स्थितं चतुर्विधं किं ग्राह्यम् / मतेर्भेदाः " नेत्याह-एकशः, एकै स्पर्शनेन्द्रियनिमित्तं चतुर्विधं, रसनेन्द्रियनिमत्तं चतुर्विधं, घ्राणेन्द्रियनिमित्तं चतुर्विधम्, चक्षुरिन्द्रियनिमित्तं चतुर्विधं, श्रोत्रेन्द्रियनिमित्तं चतुर्विधं, मनोनिमित्तं चतुर्विधमिति / चतस्रो विधा यस्य तच्चतुर्विधम् / कास्ताश्वतस्रो विधा इत्याह-अवग्रह ईहा अपायो धारणेति / स्पर्शनावग्रहः स्पर्शनेहा स्पर्शनापायः स्पर्शनधारणेति, एवं सर्वत्र दृश्यं यावन्मनोधारणेति / पर आह-नितिं चातुर्विध्यमेकैकस्य, इदं तु न विज्ञातं किंस्वरूपा अवग्रहादय इत्यतः स्वरूपमवग्रहादीनां ब्रूहि, एवमुक्ते सूरिः स्वरूपप्रचिकाशयिपयाऽऽह अवग्रहादीनाम् भा०-तत्राव्यक्तं यथास्वमिन्द्रियैर्विषयाणामालोचनावधारणमवग्रहः / अवग्रहो ग्रहो ग्रहणमालोचनमवधारणमित्यनर्थान्तरम् // टी०-तत्राव्यक्तमित्यादिना। तत्रेति चतुर्ववग्रहादिषु प्रक्रान्तेषु अवग्रहोऽभिधीयते। अवग्रहणमवग्रहः सामान्यार्थपरिच्छेद इत्यर्थः। यद् विज्ञानं स्पर्शनादीन्द्रियजं व्यञ्जनावग्रहादनन्तरक्षणे सामान्यस्यानिर्देश्यस्य स्वरूपकल्पनारहितस्य नामादिकल्पनारहितस्य च वस्तुनः परिच्छेदकं सोऽवग्रहः अव्यक्तं ज्ञानमितियावत् / यदाह-अव्यक्तम्-अस्फुटम् अवधारणमित्यनेन सम्बन्धः अव्यक्तं यदवधारणम्-अव्यक्तो यः परिच्छेद इत्यर्थः / कस्याव्यक्तं कैर्वा तदव्यक्तमिति ? / उच्यते-यथास्वमित्यादि / यथाशब्दो वीप्सायां, यो य इति, स्वशब्द आत्मीयवचनो, यो य आत्मीय इत्यर्थः / यथास्वं विपयोऽभिसम्बन्ध्यते, योऽयमात्मीयो विषयस्तस्यात्मीयस्य विषयस्य इन्द्रियैः स्पशेनादिभिः करणभूतैर्य विषयाः परिच्छे. धन्ते तेषां विषयाणां स्पर्शादीनां अव्यक्तमवधारणम्, कीदृशमत आह-आलोचनावधारणम् , आमर्यादायाम् आलोचनं-दर्शनं, परिच्छेदो मर्यादया यः स आलोचना / यथोक्तं पुरस्ताद् वस्तुसामान्यस्यानिर्देश्यस्य स्वरूपनामजात्यादिकल्पनावियुतस्य अवग्रहस्वरूपम् यः परिच्छेदः सा आलोचना मर्यादया भवति / आलोचना च सा अवधारणं च तदालोचनावधारणम् / अत एतदुक्तं भवति-उक्तमालोचनावधारणं स्पर्शनादिभिरिन्द्रियैः स्पर्शनादीनामात्मीयानां विषयाणामात्मनो यद् भवति सोऽ 1 'निर्देशस्य ' इति ख-पाठः / 2 'च विमुक्ती' इति ख-पाठः / 3 ' अनिर्देशस्य ' इति स्व-पाठः /