________________ 398 अर तत्त्वार्थाधिगमसूत्रम् [ अध्यायः५ स्थानादयः सहभुवो युगपदवस्थायिनः, स्थूलाः सूक्ष्माश्च साधनानि द्रव्याणां पर्यायाणां साध्यानि च कार्यवशाद् व्यापृताश्चोदकाद्याहरणादिषु मृत्पिण्ड-शिवकद्वैविध्यम् स्थासक-कोशक-कुशूल-घट-कपाल-शकल-शर्करा-पांशुत्रुटिपरमाणवः क्रम भुवः, नहि मृदादिसामान्यव्यतिरेकेण पिण्डादिधर्मा भवितुमुत्सहन्ते, न ह्यङ्गुलिभेदेनर्जुकुटिलतयोः सम्भवः, सैव हि साङ्गुलिः स्वाँस्तु धर्मान् पारम्पर्यमात्रातिलब्धवृत्ती क्रमेणोन्नमयति, मयूराण्डकरसवदुपारूढस्वरूपाख्येति वचनात् / एत एवासहावस्थायिनः सूक्ष्माः स्थूलाश्चापेक्षया नित्यानित्यादयः साध्याः साधनानि चाव्यामृता उदकाद्याहरणादिषु, तेषां को नामायं विरोधः? // ननु सहानवस्थानम्, तन्न, सहोत्पादावस्थानदर्शनादेकद्रव्यवृत्तित्वाच, द्रव्यमेव चक्षुरादिग्रहणापदेशविशेषाद् रूपादिव्यपदेश्यमेकपुरुषपिसृपुत्रत्वादिवत्, न च रूपादीनां समुदायैकरूपताऽभ्युपगमनीया, रूपग्रहणे रसादिग्रहणप्रसगादिन्द्रियान्तरवैयर्थ्य सङ्करादिदोपप्रसङ्गाच्च / न चाभावता, प्रमाणाभावात् प्रसिद्धिविरोधाच्च / स्वलक्षणविरोधोऽपि नास्त्येव, सामान्यविशेषात्मैकलक्षणत्वात् स्याद्वादिपरिगृहीतस्य वस्तुनः, जात्यन्तरत्वाच्च नरसिंहवदेकान्तवादिपरिकल्पिताद् वस्तुन इति / स्यात् तु क्रमजन्मनां धर्माणामसहावस्थायिनां देवमनुष्यादीनां मृत्पिण्डशिवकादीनां च विरोधोऽसहावस्थानलक्षणः, सोऽपि द्रव्यास्तिकनयप्राधान्यादभेदे विवक्षिते पर्यायाणां द्रव्यव्यतिरेकेणानभ्युपगमानास्तीति न कश्चिद् विरोधोऽस्ति स्याद्वादिनः, तमःप्रकाशच्छायातपशीतोष्णविरोधोदाहरणनिरास उक्तविधिनाऽवगम्यः, द्रव्यार्थतो नित्याः पुद्गलाः तमस्तया च क्रमजन्मानः परिणमन्ते पर्यायाः, सामान्यस्याभिन्नत्वादेकरूपा एवेति कः केन विरुध्यते ? / इत्थमर्थस्य सामान्यविशेषात्मैकरूपत्वेऽन्योन्यापेक्षित्वेऽनेकान्तात्मकत्वे एकान्तवादिपरिकल्पिताज्जात्यन्तरत्वे च न कश्चिद् दोषः, तथा स्थित्यंशस्य नित्यत्वादुत्पादव्ययानित्यत्वादुभयस्याभिन्नस्वभाववस्तुतायां कथमिदं घटते नित्यानित्ययोरेकपरिग्रहोऽपरत्वागमनान्तरीयकः एकत्यागश्वापरपरिग्रहाविनाभावीति, प्रत्यक्षादिप्रमागबाधितत्वादुन्मत्तकप्रलापमात्रमेतदवसीयत इति, तस्मान्न परिकल्पितविषयो विरोधो ( न परिकल्पितापरिकल्पितविषयो ) न सकलस्वलक्षणविषयो नापि सामयिकः, किं तर्हि ? पर्यायनयाभिप्रायेण क्रमजन्मपर्यायविषयः, स चैक एवासहावस्थानलक्षणः, सोऽपि द्रव्यार्थनयाभिप्रायेण नैवास्तीति भावितम् / एवं चैकवस्तुविषये सदसती नित्यानित्ये च अर्पितानर्पितसिद्धेरिति व्यवस्थितम् / / द्वितीयसम्बन्धाभिधानेऽपि सङ्गतार्थमेव भाष्यमुक्तेन विधिना, एतमेवार्थमधुना भाष्येण प्रपञ्चयति भा०–अर्पितव्यावहारिकमनर्पितव्यावहारिक चेत्यर्थः // टी०-अर्पितव्यावहारिकमित्यादिना, प्रक्रान्तं त्रिविधं सन्नित्यं च, तदपेक्षया 1 चिहितो भागः क-ख-यो स्ति.