________________ 152 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 ज्ञानोपयोगः, मनःपर्यायज्ञानोपयोगः, केवलज्ञानोपयोग इति, मत्यज्ञानोपयोगः, श्रुताज्ञानोपयोगः, विभङ्गज्ञानोपयोग इति / दर्शनोपयोगश्चतुर्भेदः, तद्यथा-चक्षु. दर्शनोपयोगः, अचक्षुर्दर्शनोपयोगः, अवधिदर्शनोपयोगः, केवलदर्शनोपयोग इति // 9 // टी-स द्विविधोऽष्टचतुर्भेदः, तच्छब्देन भाष्यकारोऽनन्तरमुपयोग सम्ब न्धयति, स उपयोगः सकलजीवराशेश्चिह्नभूतो द्विविधो-द्विप्रकारो तच्छब्दस्य सार्थकता न भवति / अपरे पुनस्तच्छब्दं नाधीयतेऽनन्तरत्वात् किल स एव सम्भन्त्स्यते नार्थस्तत्पाठेन, तदेतदयुक्तम् , अन्यत्रापि हि तच्छब्दोपन्यासेऽनन्तर एव संम्बध्येत ततश्च न कचित् तच्छब्दः प्रयोक्तव्यः स्यात्, तथा च 'कायवाङ्मनाकर्म योग', 'स आस्रवः' (अ० 6, सू० 1-2 ) इति, 'सकपायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते', 'स बन्धः' (अं०८, मू० 2-3) इति / पुनस्त एवाहुः-नहि योगः भेद्यत्वेन विवक्षितः किन्त्वास्रवता विधीयते योगानां तत्र, अयं पुनरुपयोगों विभित्सितस्तत्र किमन्यः स्याद् यो द्विविधत्वादिना भिद्येत ? तथेतरत्रापि पुद्गलादानस्यात्मसात्कृतस्य बन्धविधानम्, अतो न समानम् / उच्यते-कः खल्वयं नियमो यत्र भेदविधिस्तत्र तच्छब्दो न प्रयुज्यते इति ? रुचिमात्रमेवमङ्गीकृतं स्यात् , अविगानेन च भाष्यमेवं पठ्यते-स उपयोगो द्विविधस्तदेतदगमितं स्यात् , तस्मादस्तु तच्छब्दः / द्विविध एवोपयोगो भवतीत्यवधार्यते मूलभेदतः, तच्च द्वैविध्यं आचार्यः स्पष्टयतिसाकारोऽनाकारश्चेति / आकारो-विकल्पः सह आकारेण साकारः, अनाकारस्तद्विपरीतः, निर्विकल्प इत्यर्थः / एतद् व्याख्यानमन्येऽपवदन्ते-साकारानाकारयोर्यत्केवलदर्शने शक्त्यभावः प्रसज्यते मनःपर्याये च दर्शनप्रसङ्गः, तयोहि घटादिर सामान्यग्रहणेऽपि ज्ञानमेव तन्न दर्शनमिति, तस्मादाकारो लिङ्गम्, शब्दार्थः स्निग्धमधुरादिशङ्खशब्दादिषु यत्र लिङ्गेन ग्राह्यार्थान्तरभूतेन ग्राह्येकदेशेन वा साधकेनोपयोगः स साकारः, यः पुनर्विना लिङ्गेन साक्षात् सोऽनाकारः, एवं सति पूर्वकं दोषद्वयं परिहतं भवति, तदेतदयुक्तम् , यत् तावदुच्यते-केवलदर्शने शक्यभावः प्रसजतीति का पुनरसौ शक्तिः ? यदि तावद् विशेषविषयः परिच्छेदः शक्तिशब्दवाच्यस्तस्याभावश्वोद्यते ततोऽभिलषितमेव सगृहीतं स्यात् / अथ सामान्यार्थग्रहणशक्त्यभावश्चोद्यते ततस्तस्य दर्शनार्थतैवानुपपन्ना स्यात् , किं हि तेन दृश्यते ? यदप्युक्तं मनःपयोये दर्शनप्रसङ्ग इति तदागमानवबोधादयुक्तम् / न ह्यागमे मनःपर्यायदर्शनमस्ति, चतुर्विधदर्शनश्रवणात् , आगमप्रसिद्धं चेहोपनियध्यते, न स्वमनीपिका प्रत साकारानाकार 1 'सम्बध्यते' इति क-व-पाठः। 2 'मन्ये एवं वदन्त ' इति क-स्त्र-पाठः /