________________ सूत्र 5 ]. स्वोपज्ञभाष्य-टीकालकृतम् (2-10 ), पुनर्विस्तरः संसारिणस्वसाः स्थावराश्वेत्यादिना (2-12 ) / तथा अजीवादीनां धर्मादीनां लक्षणं गतिस्थित्यादि ( 5-17 ), धर्माधर्माकाशानां त्वेकत्वान्नास्ति विधानम् ( 5-5), प्रदेशान् वाऽङ्गीकृत्यासङ्ख्येयाः प्रदेशाः धर्माधर्मयोः (5-7), जीवस्य च (5-8 ), आकाशस्यानन्ताः (5-9) इति स्यादेव विधानम् / आस्रवं लक्षणेन भणिष्यति, कायवाचनःकर्म योगः (6:1) स आस्रवः (6-2) इति, पुनस्तस्य भेदं शुभः पुण्यस्येत्यादि ( 6-3,4) / बन्धस्य लक्षणं भणिष्यति, सकषायत्वात् जीव इत्यादिकम् (8-2), पुनस्तस्य विधानं प्रकृतिस्थित्यादिकम् ( 8-4) / तथा संवरलक्षणं आस्रवनिरोधः संवर इति (9-1), पुनस्तस्यैव विधानं स गुप्तिसमितिधर्मादिकम् ( 9-2) / निर्जराया लक्षणं वक्ष्यति, तपसा निर्जरा चेति (9-3), पुनस्तद्भेदा अनशनादयः (9-19) / मोक्षः कृत्लकमेक्षयलक्षणः (10-3), प्रथमसमयसिद्धादि विधानम् // 4 // ... अत्राह-कथं पुनरमी जीवादयोऽधिगन्तव्या इति ? उच्यते-नामादिभिरनुयोगद्वारैस्तथा प्रत्यक्षानुमानाभ्यां (प्रमाणाभ्यां) नैगमादिभिश्च वस्त्वंशपरिच्छेदिमिर्नयैस्तथा निर्देशस्वामित्वादिभिः सत्सङ्ख्याक्षेत्रादिभिश्च / तत्र कतिभेदा जीवा इति पृष्टे चतुर्भेदताख्यानायाह सूत्रम्-नामस्थापनाद्रव्यभावतस्तन्न्यासः // 1-5 // ... टी-इति / अथवाऽभिधास्यति भवान् उपयोगलक्षणोजीवः(२-८),तत्र किं सर्वो जीव उपयोगलक्षणः१ / नेत्याह-भावजीव एवोपयोगलक्षण इति / अथ किमन्योऽप्यस्ति यतो भावजीव इति विशेष्यते ? अस्तीत्याह / कतिविधश्चेत्, उच्यते-नामेत्यादि, तृतीयार्थे तसिः, स्त्रार्थ च कथयन्नाह भा०-एभिर्नामादिभिश्चतुर्भिरनुयोगद्वारस्तेषा जीवादीनां तत्त्वानां न्यासो भवति / विस्तरेण लक्षणतो विधानतश्च अधिगमार्थ न्यासो निक्षेप इत्यर्थः / तद्यथा-नामजीवः स्थापनाजीवो द्रव्यजीवो भावजीव इति / नाम संज्ञाकर्म इत्यनान्तरम् / चेतनावतोऽचेतनस्य वा द्रव्यस्य जीव इति नाम क्रियते स नामजीवः / यः काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते जीव इति स स्थापनाजीवो देवताप्रतिकृतिवदिन्द्रो रुद्रः स्कन्दो विष्णुरिति / द्रव्यजीव इति गुणपयोयवियुक्तः प्रज्ञास्थापितोऽनादिपारिणामिकभावयुक्तो जीव उच्यते / अथवा शून्योऽयं भङ्गः। यस्य यजीवस्य सतो भव्यं जीवत्वं स्यात् स द्रव्यजीवः स्यात्, अनिष्टं चैतत् / भावतो जीवा औपशमिकक्षायिकक्षायोपश 'अधिगमाय ' इति क-ख-घ-टी-पाठः / 2 ' यस्य नाम' इति घ-टी-पाठः / 3 'द्रव्यजीव ' इति घ-टी-पाठः।