________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः 1 विधाः सप्त प्रकारा यस्य स सप्तविधः, अर्थोऽर्यमाणत्वात्, एष सप्तविधोऽर्थ इति पदत्रयं र तत्त्वमित्यस्य विवरणम् , तत्त्वमिति वोऽव्युत्पत्तौ तथ्यं सद्भूतं परमार्थ तत्वमित्येकवचने न इत्यर्थः / व्युत्पत्तौ तु जीवादीनामर्थानां या स्वसत्ता सोच्यते, तस्याश्च ___ सत्तायाः प्रतिमेदं प्रतिवस्तु यो मेदस्तमनादृत्यैकत्वमेकत्वाच्चैकवचनमुपात्तवान् // अथैवं कश्चित् चोदयेव-याऽसौ जीवादीनां सत्ता, सा न वैशेषिकैरिवास्मामिर्मिना जीवादिभ्योऽभ्युपेयते यतोऽभिहितम्-"घडसत्ता घडधम्मो तत्तोऽणनो पडाइओ मिनो (विशे० 1722)" / तस्मात् प्रतिवस्तु सा मेत्तव्या, प्रतिवस्तु च भिद्यमाना बहुत्वं प्रतिपद्यत इति बहुत्वाद् बहुवचनेन भवितव्यम् तत्त्वानीति, उच्यते-सामान्येन विवक्षिता सती सैकत्वमिव विभर्ति, मुख्यया तु कल्पनया वस्तुधर्मत्वात् प्रतिवस्तु भेत्तव्या भवति, तदा च बहुवचनेनैव भवितव्यमेवेति, एतदाह-एते वा सस पदार्थास्तत्त्वानीति / एते प्रार प्रत्यक्षीकृताः / वाशब्दो हि प्रतिवस्तु भिद्यमानं तत्त्वं बहुत्वं प्रतिपद्यत इत्यस्य पक्षस्य सूचकः / सप्त च ते पदार्थाश्च सप्तपदार्थाः जीवादयः। तत्त्वानि दृश्यानि, पुण्यपापयोश्च बन्धेतर्भावान्न भेदेनोपादानम् / यद्येवमास्रवादयोऽपि पश्च तर्हि न जीवाजीवाभ्यां सवादीनां भिद्यन्ते / कथमिति चेत्, उच्यते-आस्रवो हि मिथ्यादर्शतत्त्वानां जीवा- नादिरूपः परिणामो जीवस्य / स च कः आत्मानं पुद्गलांच जीवयोरन्तर्भावः विरहय्य 1 / बन्धस्तु कर्म पुद्गलात्मकमात्मप्रदेशसंश्लिष्टम् / संवरोऽप्यास्रवनिरोधलक्षणो देशसर्वभेद आत्मनः परिणामो निवृत्तिरूपः / निर्जरा तु कर्मपरिशाटः, जीवः कर्मणां पार्थक्यमापादयति स्वशक्त्या। मोक्षोऽप्ययमात्मा समस्तकर्मविरहित इति / तस्मात् जीवाजीवास्तत्त्वमिति वाच्यम् / उच्यते-सत्यमेतदेवम्, किंतु इह शाखे शिष्यः प्रवृत्ति कारितोऽस्मात् कारणात् ज्ञानादिकात् सेव्यमानाद् भवतो मोक्षावाप्तिर्भविष्यत्यन्यथा संसार इति, तस्य च यदि मुक्तिसंसारकारणे न भेदेनाख्यायेते ततोऽस्य सम्यक्प्रवृत्तिरेव न स्यात् / यदा त्वेवं कथ्यते, आस्रवो बन्धश्चैतदद्वयमपि मुख्यं तत्त्वं संसारकारणम्, संवरनिर्जरे च मुख्यं तत्त्वं मोक्षकारणमिति, तदाऽनायासात् संसारकारणानां हेयतया यतिष्यते मुक्तिकारणानां चादेयतयेति, तस्माच्छिष्यस्य हेयादेयप्रदर्शनायाऽऽस्रवादिचतुष्टयमुपात्तम् / यत् तु मुख्यं साध्यं मोक्षः यदर्था प्रवृत्तिस्तत् कथमिव न प्रदर्येतेति, तस्माद् युक्तं यत् पञ्चाप्युपादीयन्त इति / किं पुनरेषां जीवादीनां लक्षणमग्नेरिवौष्ण्यम् ? के वा भेदा जीवादीनां यथा तस्यैवानेस्तार्णपादिय इत्युक्ते तान् लक्षणत इत्याद्याह / तान् जीवादीन् लक्षणत:स्वचिदन, विधानतो-भेदेन, चशब्दाद् मेदानपि सप्रभेदान् वक्ष्यामि, पुरस्तात्उपरिष्टात्, किं सक्षेपेणोत विस्तरेण ? विस्तरेणेत्याह / कथमिति चेत्, उच्यते-जीवस्य लक्षणमिदमुपयोगलक्षणो जीव इति (2-8), तदेव लक्षणं विधानतः कथयिष्यति, स द्विविधः, साकारोऽनाकारश्च, पुनस्तावष्टचतुर्भदाविति ( 2-9), तथा संसारिणो मुंक्ताध 1 'चाव्युत्पत्तौ' इति क-ख-पाठः। १घटसत्ता घटधर्मः तस्मादनन्यः पटादितो मिन्नः।