________________ 368 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 चाणोर्न सन्त्यतो निरवयवत्वात् संस्थानित्वासिद्धिः, एवं तहसंस्थानित्वाइसत्परमाणुरिति, उच्यते-व्योमासंस्थानमपि सदेवेत्यनेकान्तः, न च कन्दुकादिवद् दृष्टपरिधित्वेनाभ्युपगम्यते विहायः, सर्वलोकशास्त्रानुमानविरोधादिति / योऽप्याशङ्केत अभूतान्तर्वहिर्भावान्यदेशत्वेन युष्माभिरभ्युपगतत्वान्नास्ति परमाणुः, तस्यापि हेतोर्निरशैकक्षणवृत्तिविज्ञाने वर्तमानत्वादनैकान्तता / अपि च -योगः सम्प्राप्तिलक्षणः न चासौ प्रदेशैरेव क्रियते, निष्प्रदेशस्यापि स्वयं प्राप्तिरस्त्येवेति / एतेन नास्तित्वं प्रतिषिद्धमप्यवसातव्यम्, अवयवैरकृतत्वात् तस्येति, पिष्टपेपणं चैतत् कार्या( रया )महे वयम्, उक्तं प्राक्-सर्वमेवं हि स्थूलं प्रविभज्यमानमवश्यन्तया निरवणवनिष्टमुपजायते द्रव्यं, सूक्ष्मपूर्वकत्वात् स्थूलस्येति / आह च-“ सर्व सविभागमविभागप्रविष्टम्," यत् पुनस्तेपामेकस्मिन्नेवाकाशप्रदेशेऽनन्तानामप्यवगाढत्वं तदप्रतिघातपरिणामपरिणतत्वात् व्याप्तैकापवरके प्रदीपप्रभयेवान्यप्रदीपप्रभाणाम, शीततमःशब्दत्वपरिणतपुद्गलानां चाप्रतिघातित्वदर्शनात, तद्वत् परमाणुरेकस्मिन् व्योमप्रदेशे व्यवस्थितोऽन्येपामपि परमाणनां भूयसामवगाहमानानां विघातं प्रति न निवर्तितमुत्सहते, कथं तर्हि असति प्रतिघाने महतो द्रव्यस्य निष्पत्तिः ! सङ्घातस्तु सति संयोगे सम्भवति, संयोग श्चाप्राप्तयोः प्राप्तिमात्रं, नान्योन्यावेश इति, उच्यते-महतो द्रव्यस्यारम्भकाले परमाणूनामप्रतिघातित्वमस्मान् प्रत्यसिद्धम्, यतस्त्रिविधं प्रतिघातमामनन्ति भगवन्तः परमाणूनां-बन्धपरिणामोपकाराभाववेगाख्यम्, तत्र बन्धपरिणामप्रतिघातः स्निग्धरूक्षत्वाद वन्ध इत्यत्र (सू०३२) वक्ष्यमाणः, उपकाराभावलक्षणप्रतिघातो गतिस्थित्युपग्रहो धमोधर्मयोरुपकार इत्यत्र (अ० 5, मू० 17) सूत्रेाक्षिप्तः प्रेक्षणीयः, लोकादन्यत्र जीवानामजीवानां परमाणूनां प्रतिघातस्य त्रैविध्यम् च गतेः प्रतिघातो गत्युपग्रहहेतुरहितत्वाज्झपमकरादेरिवाम्भसोऽन्यत्र, अन्वयः सामान्येन सुशक्यः कर्तुम् , अतः परमाणुलोकान्ते प्रतिहन्यत इति उपकाराभावात् प्रतिघातितेति, तथाऽणोरण्वन्तरेणापतता विनसासमुद्भुतगतिरंहसा प्रतिघातो दृष्टः, प्राप्तवेगगतिर्हि परमाणुरापतन् जविनमेव परमाणु प्रतिहन्ति, वेगवे सति स्पर्शवत्वान्मृतिमत्त्वाच्च प्रबलवेगः प्रभञ्जनो वाद्यान्तरमिवेति प्रतिघातित्वं वेगादत्यवतीयत इति, एवमनकयोपपत्या प्रतिघातित्वाप्रतिधातित्वे परमाणुविषये प्रसाधिते, सम्प्रति तेपामेकव्योमप्रदेशास्कन्दिनामणूनामनन्तानामपि कदाचित् संयोगवृत्त्यावस्थानमनारब्धस्कन्धकार्याणामेव जातुचि बन्धाकारेण घटितकार्याणाम् / कः पुनरनयोः संयोगवन्धयोविशेष इति ? / ____ उच्यते-नैरन्तर्येणावयवप्राप्तिमात्रं संयोगः, बन्धः पुनरन्योन्याङ्गाङ्गिमासंयोगबन्ध वपरिणाम इति, विरोधोद्विभावयिपया कश्चिदाचक्षीताविचक्षणः-कथमेयोर्विशेषता " कस्यैवाणोः प्रतिघातित्वाप्रतिघातित्वे परस्परविरुद्ध स्त इति ? उच्यतेविरोधाभावः प्रागुक्तः, अपि च-परिणामविशेपादुभयमपि सम्भाव्यते पुद्गलेषु, शब्दस्तावत् तिरस्कृतोऽपि कुड्यादिभिरप्रतिहन्यमानः श्रवणपथमभ्युपेति, स एव कदाचिदुह्यमानत्वाद् वा युना प्रतिहन्यते, प्रतिवातस्थितेनानुपलभ्यमानत्वादनुवातस्थितेन चोपलभ्यमानत्वाद् गन्धवत्, उगते च वायुना शब्दो मा स्म संशयिष्ठाः, तस्मात् सुधूच्यते सङ्घातादुत्पत्तिः स्कन्धानाम्, १व्योमो ' इति क-ख-पाठः / 2 'वाद्यन्तरमिवेति' इति ग-पाठः।