________________ 203 सूच 44 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् टी-ते आदिनीत्यादि / प्रस्तुते तैजसकार्मणे तच्छब्देनाभिसम्बध्येते / ते आदिनी एषामौदारिकादीनां मेढीभूते व्यवस्थिते तानि तदादीनि समुदायसमासार्थः / एतदेव स्पष्टतरं करोति-तैजसकार्मणे यावत् संसारभाविनी आदिनी कृत्वा यावत् संसारं भवितुं शीलमनयोस्ते यावत्संसारभाविनी तैजसकार्मणे आदिनी कृत्वा मेढीभूततया व्यवस्थाप्य शेषाणि औदारिकादीनि एकस्मिन् काले एकस्य जीवस्य भाज्यानिविकल्प्यानि, आ चतुर्य इति यावञ्चत्वारि युगपदेकजीवस्य भवन्त्यप्रत्याख्यानपक्षे / अथैकीयमतेन तैजसं प्रत्याख्यातं तदा त्रीणि युगपदेकस्य स्युः, आचार्यस्याभिप्रायः-कार्मगवत् तैजसं प्रायः सर्वदा सर्वस्यास्ति, यतस्ते आदिनी एषामिति विग्रहं कृतवान् / ये तु प्रत्याचक्षते तेषां विग्रहः-तत् आदि कार्मणमेषां तानि तदादीनि / उभयथा च भाष्यं भविष्यति, आचार्यस्य तु विग्रहगतौ कर्मकृत एव योगो भवति, न तु तैजसमित्यत्रैव लब्ध्यपेक्षत्वात् तत् किल नास्ति, तस्यामवस्थायामन्यत्र त्वाचार्यस्य तैजसं सर्वत्रास्ति / तामिदानीमात्माभिप्रायानुसारिणी भजनां दर्शयन्नाह भा०-तद्यथा-तैजसकार्मणे वा स्याताम् / 1 / तैजसकामणौदारिकाणि था स्युः / 2 / तैजसकार्मणवैक्रियाणि वा स्युः / 3 / तैजसकामणौदारिकवैक्रिपाणि वा स्युः / 4 / तैजसकार्मणौदारिकाहारकाणि वा स्युः / 5 // कार्मणमेव वा स्यात् / 3 / [ कार्मणतैजसे वा स्याताम् / 7 / ] कार्मणौदारिके वा स्याताम् / 7 / कार्मणवैक्रिये वा स्याताम् / 8 / कार्मणौदारिकवैक्रियाणि वा स्युः।९। कार्मणौदारिकाहारकाणि वा स्युः / 10 / कार्मणतैजसौदारिकवैक्रियाणि वा स्युः / 11 / कार्मणतैजसौदारिकाणि वा स्युः / 12 / न तु कदाचिद युगपत् पश्च भवन्ति / नापि वैक्रियाहारके युगपद् भवतः / स्वामिविशेषादिति वक्ष्यते // 44 // टी०-तद्यथेत्यादिना / अन्तर्गतौ तैजसकार्मणे केवले स्तः, इह तु तैजसमाश्रितमाचार्येण, विग्रहगतावित्यत्र पराभिप्रायेण नाश्रितम् , भवस्थतायामेते च औदारिकं चेति त्रीणि युगपत् / अथवा एते च वैक्रियं चेति त्रीणि, तियङ्मनुष्याणां शरीरसंख्या तू तैजसकार्मणौदारिकैः सह लब्धिप्रत्ययवैक्रियशरीरसद्भावे युगपदविच्छि मप्रदेशत्वाचत्वारि, चतुर्दशपूर्वधरमनुष्यस्याहारकलब्धौ सत्यां तैजसकामणौदारिकैः सह युगपदेवं चत्वारि, पद्मनालतन्तुवदेवाविच्छेदेनैकजीवप्रदेशैश्चतुष्टयमपि प्रतिबद्धमवसेयम् / एवमेतान् पञ्च विकल्पान् स्वमते प्रदाधुना एकीयमतमादर्शयितुमाह-कार्मणमेव स्यात्, न ह्यन्तर्गतौ लब्धिप्रत्ययं तैजसमस्ति, लब्धेम॒तावेव प्रच्यवनात्, अतः कार्मणमेव मति प्रथमो विकल्पः, कार्मणतैजसे वा स्यातामित्ययमत्रानुपपन्नो विकल्पो हेया तु १'काहारकाणि' इति घ-पाठः /