________________ 202 तत्त्वार्थाधिगमसूत्रम् [अध्यायः शीतरश्मिनिसर्गकरं तैजसम् / तथा प्राजिष्णुप्रभेत्यादि / भ्राजनशीलो-प्रापि ष्णुः प्रभाणां समुदयस्तस्य छाया-आमा भ्राजिष्णुप्रभासमुदयच्छाया // ननु च भ्राजिष्णुरे भवति, किं हि तस्य विशेष्यते ? मलीमसत्वेनापि दर्शनात् , मलीमसप्रभो मणिरि संव्यवहरन्ति लौकिकाः, तस्याः छाया(या) निर्वर्तकं उत्पादकं-तैजसं, शरीरेष्वौदारिक दिकेषु केषुचित् मणिज्वलनज्योतिष्कविमानवदिति / यथा हि मणयः स्फटिकाङ्कवैड्या दयो भ्राजिष्णुच्छाया विमलपुद्गलारब्धत्वात् , ज्वलनो वा निरस्तप्रत्यासन्नतिमिरबात प्रद्योतते स्वतेजसा, ज्योतिष्कदेवानां वा चन्द्रादित्यादीनां विमानान्यतिभास्वराणि निर्मलद्र व्यारब्धत्वात् , तथा तैजसशरीरापेक्षमौदारिकादिषु शरीरेषु केषुचिदेव स्फुरन्मृजाजालमुपल भ्यते, न सर्वेषु, अन्यथा तद्भावात् / कया युक्त्या तत् तथा भवेत् ? एतच्च तेष्वेव शरीरे द्रष्टव्यं यानि लब्धेराधारतां प्रतिपद्यन्ते, अन्यथा ग्रन्थो न सङ्गच्छेत, तथा भ्राजिष्णुप्रमे त्यादि च, किं कारणं ? ये हि लब्धिप्रत्ययमेवेच्छन्ति तैजसं तेषां तावदन्यत्र लन्धेरभावार घटते, आचार्याभिप्रायोऽपि नायं, पराभिप्रायप्रस्तावात् / अपरे वर्णयन्ति-आचार्यमतमेवेदम् अन्ये तु नित्यसम्बन्धमेव तत्कार्यमपि च भ्राजिष्णुप्रभेत्यादि, तदेतदयुक्तमव्याप्तेरिति / अथ यानि शरीराणि लब्धिरहितानामपि मयूखजालमुद्वमन्ति दृश्यन्ते, तेषु कथम् ? / तर हि कार्मणौदारिकशक्तिरेव सा तादृगिति न तैजसस्य, यथा वैकियेष्वितिप्रत्याख्यानवादिन एवं वर्णयन्ति, तस्माद् यदधुनैव लब्ध्या समुद्भाव्यते तत् कथमनादिसम्बन्धं सर्वस्य व जन्तोः स्यादाहारकवदप्राप्तलब्धेन तेन दाहादि किंचित् कार्यमनुष्टातुं शक्यमनुपजातकुम्भेनेः जलाद्याहरणादि, प्रतिनिवृत्ततथाविधलब्धिरपि पुमान् तथा किंचित कर्तुं समर्थो न भवति ध्वस्तघट इव तैलधारणादि, तस्मान्नास्ति तैजसं सर्वस्य जन्तोः, न चानादिसम्बन्धम्, इह च सूत्रे प्रेक्षापूर्वकारितयाऽऽचार्येणाक्षेपोऽकारि सूत्रद्वयमप्याक्षेप्स्यामीति, अन्यथा पूर्वमूत्र एवाः क्षेपो युज्यते, एवमेकीयमतेन प्रत्याख्यातमेव तैजसमनादिसम्बन्धतया सर्वस्येति / या पुन रभ्यवहताहारं प्रति पाचकशक्तिर्विनाऽपि लब्ध्या सा तु कार्मणस्यैव भविष्यति, कर्मोष्णत्वात्, कार्मण हीदं शरीरमनेकशक्तिगर्भवादनुकरोति विश्वकर्मणः, तदेव हि तथा समासादितपरि णति व्यपदिश्यते यदि तैजसशरीरतया ततो न कश्चिद् दोप इति // 43 // ___अथ किं यथैते सर्वस्यानादिसम्बन्धे युगपञ्च किमेवमन्यान्यपि युगपदेकस्य भवन्त्युताहो न ? / अत्रोच्यते-सन्ति, न तु सर्वाणि / कियन्ति तहीति ? / अत आहसूत्रम्--तदादीनि भाज्यानि युगपदेकस्या चतुर्यः // 2-44 // भा० ते आदिनी एषामिति तदादीनि / तैजसफार्मणे यावत् संसारभाविनी आनी कृत्वा शेषाणि युगपदेकस्य जीवस्य भाज्यान्या चतुयः // 'आदिनौ ' इति घ-पाठः। 2' विनौ आदिम् ' इति घ-पाठः /