________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 मनस्ततो ज्ञेयकृतमनुग्रहं विक्लेदादिरूपमनुभवेद् उपघातं वा दाहादिरूपमिति // अथामूर्तस्वान्न दह्यत इति, तदप्ययुक्तम् , आहेतस्य हि पुद्गलात्मकत्वात् मूर्तता मनस्यसिध्यत्, शरीरस्थं वा मनो विषयं निश्चिनोति, यथा हि स्पर्शनं करणमगत्वेति न वा शरीरात् तस्य निःसरणं, स्पर्शनं हि करणं सन्न निस्सरद्दष्टम् , अतो मनश्चिन्त्यमानैर्वस्तुभिः सह न श्लिष्यतीति व्यञ्जनावग्रहाभाव आख्यायते / चतुर्भिरिति चक्षुर्मनोव्यतिरिक्तानि चत्वार्येवेति, अन्यानि सांख्याभिमतानि निरस्यति-चतुर्भिरेव नातो व्यतिरिक्तैरिन्द्रियैरिति, स्पर्शनरसनघ्राणश्रोत्रैः शेषैरिति, उपर्युक्तवजैः भवति, व्यञ्जनावग्रहः सम्भवतीति यावत् / किमिति यदि एतानि चत्वार्यप्युपकरणेन्द्रियेण सह श्लिष्टं स्पर्शादिकं विषयमवच्छिन्दते नान्यथेति अतः प्राप्तविषयग्राहित्वादेषां सम्भवति व्यञ्जनावग्रह इति / एवमेतदिति लक्षणविधानाभ्यां . यन्निरूपितं मतिज्ञानं तस्य पुनः सम्पिण्डय भेदान् कथयति द्विविधमतिज्ञानस्य भेद- मित्यादिना / द्विविधमिति, इन्द्रियनिमित्तमनिन्द्रियनिमित्तं च / चतुविचार विधमवग्रहादिभेदतः / अष्टाविंशतिविधमिति, स्पर्शनादीनां मन:पर्यवसानानां षण्णामेकैकस्य चत्वारो भेदा अवग्रहादयस्ते समुदिताः सर्वेऽपि चतुर्विंशतिरुपजाताः, ततोऽन्यच्चक्षुर्मनोवर्जस्पर्शनादीनां यो व्यञ्जनावग्रहः चतुर्भेदः स प्रक्षिप्तः, ततोऽष्टाविंशतिविधं भवति / अष्टषष्टयुत्तरशतविधमिति, तस्या एवाष्टाविंशतेरेकैको भेदः पइविधो भवति बह्लादिभेदेन अत अष्टषष्टयुत्तरशतविधं भवति / तस्या एवाष्टाविंशतेरेकैको भेदो द्वादशधा भवति सेतरवह्नादिद्वादशकेन, अतः षट्त्रिंशत्रिशतभेद(विध)मिति // 19 // __ अत्र-अस्मिन्नवकाशे चोदकः आह-गृह्णीमो जानीमस्तावत् क्रमेण पूर्वमुद्घट्टितं लक्षणविधानरूपं मतिज्ञानं, तदनन्तरं तु यच्छुतज्ञानमुक्तं तन्न विद्म' इत्यतः पृच्छयते मया-अथ श्रुतज्ञानं किंलक्षणमिति ? / अस्मिन् चोदिते गुरुराह-उच्यते मयेति सूत्रम्-श्रुतं मतिपूर्व द्वयनेकद्वादशभेदम् // 1-20 // टी-श्रुतमिति लक्ष्यं, मतिपूर्वमिति लक्षण, व्यादिविधानं, श्रुतमिति च श्रूयते ... स्म श्रुतम् / एवंविधायां च कल्पनायां शब्दोऽभिधीयते न श्रुतिः, श्रुत - श्रवणमिति भवासाधनतामभ्युपैति, प्रकृतेन ज्ञानग्रहणेन श्रुतमिति ज्ञानं ग्राह्य, न शब्दः, ज्ञान विचारप्रस्तावात् / यदि तु श्रुतज्ञानस्यान्तर्वर्तिनः स शब्दो निमित्तता प्रतिपद्यमानः श्रुतव्यपदेशमनुते न कश्चिद् दोषः, उपचारस्य व्यवहाराङ्गत्वात् / मुख्यया तु वृत्या श्रुतमित्यनेन ज्ञानमुच्यते, एतदाह भा०-श्रुतज्ञानं मतिज्ञानपूर्वकं भवति / श्रुतमाप्तवचनं आगमः उपदेश ऐतिधमाम्नायः प्रवचनं जिनवचनमित्यनान्तरम् // 7 श्रुतशब्दर