________________ 382 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 योगः-परस्परापेक्षः समुदाय एवोत्पादादीनां, न सदित्यस्य ध्वनेविषयः, यथा वृक्षा वन समुदिता एव नैककाः, एवमुत्पादव्ययध्रौव्याणि योगः सदिति, अथवा समाध्यर्थस्य युजेयुक्तं समाहितं त्रिस्वभावं सत् उत्पादव्ययधौव्याण्येव त्रयः स्वभावाः सम्यगाहिताःपरस्परप्रतिबद्धाः सदिति / अन्ये तूत्पाव्ययध्रौव्यैर्युक्तमिति गृह्णने, किं पुनस्तदुत्पादादिभियुक्तमिति निरूपणीयम् , उत्पादादित्रयव्यतिरेकेण द्रव्याभावान विद्यः किं तद् युज्यमानमुत्पादादिभिः / अपरे समाधानमाक्षेपस्याभिदधते // युक्तं विशेष्यते उत्पादव्ययध्रौव्यैः समुदितैर्यो योगस्तद् युक्तं सत् , नान्याभ्यामुत्पादव्ययाभ्यामित्यादिको योगः सदिति, योगध सामान्येनोत्पादादीनामनादिर्विशेषविवक्षया सादिः, ध्रौव्यं चेति पृथक् प्राधान्यख्यापनाय सामान्यस्य भाष्यकृतोदचारि, यतः सत्यन्धयांशे तदाश्रयावुत्पादविनाशौ सङ्गच्छेते, अन्यथा कस्योत्पादः ? कस्य चानुत्पन्नस्य तेनाकारेण व्ययः // अपरे तु धौव्यं चेत्यसमस्ततामन्यथा वर्णयन्ति त्रैलक्षण्ये सतः सादिः, कथं सन्न त्रिलक्षणम् / ध्रौव्यं तल्लक्षणत्वेन, द्रव्यार्थेन त्रिषदितम् // 1 // अत एव पृथग वृत्ती, ध्रौव्यं चेति प्रदर्शितम् / / सत् त्रिरूपं त्रयं त्वेतत् , सम्भवेन विकल्पते // 2 // आधयोर्नियमादन्त्य-मन्त्ये तु भजनाऽऽद्ययोः / स्वतः परनिमित्तौ तु, स्यातामप्युपचारतः // 3 // अस्ति नोत्पद्यते चैक-मेकमुत्पद्यतेऽस्ति च / नास्ति चोत्पद्यते चैकं, नास्ति नोत्पद्यते परम् // 4 // आकाशपरमाणू च, प्रदीपान्त्यशिखादि च / आकाशकुसुमं चेति, चतुष्टयमुदाहृतम् // 5 // सङ्कपतः कारिकापञ्चकस्यायमर्थः-पुद्गलजीवेषत्पादव्यययोरन्यादृशत्वाद् ध्रौव्यस्य पञ्चत्वेऽप्यविशेषाद् वृत्तौ पृथप विवरणम् , अन्यथा धर्माधर्माकाशेष्यधिगमोपायविषयत्वेनोत्पादप्रच्युती, अन्यथा च जीवपुद्गलेविति द्रव्यक्षेत्रकालभावापेक्षात्, अन्यथा प्रयोगजावुत्पादव्ययौ, अन्यथा च धर्मास्तिकायादिषु द्रव्यस्वभावापेक्षमप्रयोगजौ ज्ञानविषयत्वोत्पादप्रच्युतिमात्रलक्षणौ, नहि तेषु पौरुषेयो विलसा वा प्रयोगः क्रमत इति, अतः परप्रत्ययावुत्पादविनाशी त्रयाणाम् , जीवपुद्गलानां तु प्रयोगविस्रसाभ्यामुत्पादव्ययौ सम्भवतः, ध्रौव्यं तु सर्वेष्वविशिष्टम् , एतत् सतो लक्षणं कचिदुपचारतः कचित् परमार्थत इति, तदेतत् पौर्वापर्येणालोच्य कृ. तप्रज्ञैरागमज्ञैरेव व्याख्यास्यते निर्विरोध, वयं तत्रानिपुणाः किश्चिदेवस्थलकुशलतयाऽभिदध्म हे-चशब्दः समुचितौ वर्तते, तेनोत्पादादयः प्रत्येकं सतो लक्षणं, किं तर्हि ? समुदिता एव वस्तुतत्त्वं भवन्तीति, एनमेवार्थमुत्तरेण भाष्येण प्रदर्शयति-यदुत्पद्यते यद् व्येति यच्च