________________ तत्त्वार्थाधिमगसूत्रम् [ अध्यायः 1 भावे चाभावादिति / मुख्यं तु कारणं तस्याप्यवधेः क्षयोपशम एव, न ह्यवधिज्ञानदर्शनावरणीयस्य कर्मणः क्षयोपशममपहाय देवनारकाणामवघेरुत्पत्तिरस्तीति, तस्यैव तु क्षयोपशमस्य स भवो निमित्ततां बिभर्ति, कारणत्वात् , देवनारकावधिर्निमित्ती, तस्य कारण क्षयोपशमः, क्षयोपशमस्य कारणं भव इति / अशुद्धनयमतेन च कारणकारणमपि कारणं मण्यते / एवं भवस्य प्रत्ययता क्षयोपशमनिमित्तता चेति, यदा अवधिज्ञानदर्शनावरणीयकर्मणां क्षयः-परिशाटः संजातो भवत्युदितानामनुदितानां चोपशमः- उदयविघातलक्षणः संवृत्तो भवति स उपशमस्ताभ्यां क्षयोपशमाभ्यां कारणभूताभ्यां य उदेति स क्षयोपशमनिमित्त इति मनुष्याणां तिरश्चां चेति // 21 // सूत्रम्-तत्र भवप्रत्ययो नारकदेवानाम् // 1-22 // टी०-तत्रेति तयोरुद्घट्टितयोद्वयोराद्यस्तावदुच्यते, तमाह-भवप्रत्ययोऽवधिः नारकदेवानाम् / नारकदेवानामित्यमुमवयवं विवृणोति भा०-नारकाणां देवानां च यथास्वं भवप्रत्ययमवधिज्ञानं भवति / भवप्रत्ययं देवनारक्योरवधिः र भवहेतुकं भवनिमित्तमित्यर्थः / तेषां हि भवोत्पत्तिरेव तस्य व भवहेतुका" हेतुर्भवति, पक्षिणामाकाशगमनवत्, न शिक्षा न तप इति // 22 // टी-नारकाणामित्यादिना / नारकाः शर्करासनिविष्टोष्ट्रिकाकृतयः तेषु भवाः अतिप्रकृष्टदुःखोपेताः प्राणिनो नारकाः, देवा भवनपत्यादयः शुभकर्मभुजः तेषाम् / यथास्वमिति / यस्य यस्यात्मीयं यद्यदित्यर्थः / तद् यथा-रत्नप्रभापृथिवीनरकनिवासिनां ये सर्वोपरि तेषां अन्यादृशम् , ये तु तेभ्योऽधस्तात् तेषां तस्यामेवावनावन्यादृक् प्रस्तरापेक्षयेति। एवं सर्वपृथिवीनारकाणां यथास्वमित्येतन्नेयम् / देवानामपि यद् यस्य सम्भवति तच्च यथास्वमिति विज्ञेयम्, भवप्रत्ययं-भवकारणं अधोऽधो विस्तृतविषयमवधिज्ञानं भवति / प्रत्ययशब्दश्च विज्ञाने प्रसिद्ध इत्यतोऽर्थान्तरवृत्तितां दर्शयति-भवप्रत्ययं भवहेतुकं भवति / भवनिमित्तमिति, भवः प्रत्ययो-हेतुर्निमित्तमस्य तद्भवप्रत्ययमिति // ननु च क्षयोपशमनिमित्तता ज्ञानाज्ञानादिसूत्रे कथयिष्यति, भवावधेः कथमौदयिको भवोऽस्य निमित्तमिति ? / उच्यते-तस्मिन्नेव क्षयोपशमलब्धेरवश्यंभावादित्युक्तं किं विस्मार्यते भवता?, एतदाहतेषामित्यादिना / तेषां-नारकदेवानां यस्मानारकदेवभवोत्पत्तिलाभ एवं तस्य अवधिज्ञानस्य हेतु:-कारणं भवतीति / भवोत्पत्तिरेवेति च नियम एव दृश्यो विद्यमानमपि क्षयो. पशममनङ्गीकृत्य यदेव क्षयोपशमस्य कारणमसाधारणं तत्रैवादरमादधान एवमुक्तवान्भवोत्पत्तिरेवेति, न पुनर्भव एवास्य निमित्तमिति, क्षयोपशमस्याप्याश्रितत्वादिति / यथा वाऽन्यत्रापि भव एव केवलो निमित्तं भवति कस्यचित् कार्यविशेषस्य तथा दर्शयति-पक्षिणामित्यादिना। पक्षिणां-मयूरशुकसारिकादीनां यथा आकाशगमनशक्तिः प्रादुर्भवति 1 'क्षयोपशमनिमित्तताश्चेति' इति क-ख-पाठः /