________________ सूत्र 23] स्वोपज्ञभाष्य-टीकालङ्कृतम् शिक्षा अन्योपदेशरूपां तपश्च अनशनादिरूपमन्तरेण तद्वन्नारकदेवानां शिक्षा तपश्चान्तरेण तदवधिज्ञानं प्रादुरस्तीति // 22 // द्विविधोऽवधिरित्युक्तम्, तत्रैकं भेदं प्रतिपाद्य द्वितीयभेदं दर्शयन्नाह-यथोक्तमित्यादि। अथवा यथा देवनारकावधिर्भवं क्षयोपशमं चोभयमपेक्षते एवं किं क्षयोपशमोऽपि अवश्यं मनुष्यादिभवे प्राप्ते भवत्येव उत नेति ? / उच्यते-नातत्र भवः सन्नपि कारणतयाऽभ्युपेयते, तद्भावेऽप्यभावादवधेः, किंतु क्षयोपशम एव प्राधान्येन निरूप्यते सूत्रम्-यथोक्तनिमित्तः षड्विकल्पः शेषाणाम् // 1-23 // टी-यथोक्तनिमित्त इत्यादिना। यथा-येन प्रकारेण उक्तं-उदितं निमित्तं-- नरतिरश्चां हेतुरस्य स यथोक्तनिमित्तः // ननु भवोऽपि उदितं निमित्तं तस्येत्याषड्विधोऽवधिः शङ्कय स्वयमेनं यथोक्तं निमित्तशब्दमुच्चार्यार्थ कथयति__ भा०—यथोक्तनिमित्तः, क्षयोपशमनिमित्त इत्यर्थः / तदेतद्वधिज्ञानं क्षयोपशमनिमित्तं षड्विधं भवति / शेषाणामिति नारकदेवेभ्यः शेषाणां तिर्यग्योनिजानां मनुष्याणां च / अवधिज्ञानावरणीयस्य कर्मणः क्षयोपशमाभ्यां भवति षड्विधम् / तद् यथा टी०-यथोक्तनिमित्त इति / क उक्त एवं बुद्धिर्भवेत् 1 / उच्यते-एवं क्षयोपशमनिमित्त इत्यर्थः, क्षयचोपशमश्च क्षयोपशमौ तौ निमित्तमस्य अत एवमभिधीयते क्षयोपशमनिमित्त इति, यथा सम्यग्दर्शनादि क्षयोपशमनिमित्तं तद्वदेष इति / षडिति सङ्ख्येयप्रधानसङ्ख्याभिधायी, विकल्प इत्यनेकरूपं यत् कल्पनं यावत् स्थान रूपैरित्यर्थः / पइ विकल्पा यस्य स पड्विकल्प इत्यवधिसम्बन्धे पइविकल्पोऽवधिः पुल्लिङ्गः। यदा त्ववधिशब्दः प्रकृतस्य ज्ञानस्य विशेषणं भवति तदा नपुंसकलिङ्गता पविधमिति / एतदाह-तदेतदित्यादि / तदिति पुरस्ताद् यदुक्तं, एतदिति भवतः प्रत्यक्षं, हृदि विपरिवर्तमानत्वात्, अवधिज्ञानं क्षयोपशम, नेतरत् , षड्विधं भवति, षड्विधक्षयोपशमसद्भावादित्यर्थः / केषां पोढा ? अत आह-शंषाणाम् / अस्य चार्थ विवृणोति-शेषाणामित्यादिना। शेषाणामुपयुक्तवर्जितानाम् , ते के चोपयुक्ताः ? देवनारकाः, तेभ्यो देवनारकेभ्यः शेषाणाम् , तद्वजोश्च नान्ये तिर्यमनुष्यान् अन्तरेण सन्तीत्यत आह-तिर्यग्योनिजानां मनुष्याणां च, तिरश्चांगवादीनां योनिः-उत्पत्तिस्थानं गर्भादि तत्र जन्यन्त इति तिर्यग्योनिजाः पञ्चेन्द्रियाः पर्याप्ताः संझिनो ग्राह्याः, तेपामेव तेन योगात् , असंज्ञिपञ्चेन्द्रियादीनां तु तदभावः, अतस्तेषां, मनुप्याणां च गर्भजादिविशिष्टानां, न तु संमृर्छजानामिति / कथं पुनरे सत् पड्विधमिति व्यपदिश्यते / आह-उपाधिभेदात् / स चोपाधिः क्षयोपशमोऽनेकरूपः ज्ञानावरणीयकर्मण इत्येतद् दर्शयति-ज्ञानमवधिस्तस्यावरणीयम्-आच्छादकं भास्करस्येवाभ्रादि तस्य ज्ञाना. वरणीयस्य कालान्तरकृतस्य कर्मणः क्षयोपशमाभ्यां उक्तस्वरूपाभ्यां षविधं भवति,