________________ तत्त्वार्थाधिगमसूत्रम् [श्रीसिद्धसेनस तस्योपसर्जनमर्थोऽनभिसंहितानुषक्त इति / नैव चात्र नृसुरैश्वर्यसुखानुज्ञा, निःश्रेयसावाप्तिहेतुत्वेनानवद्यकर्माभ्यनुज्ञानात् पुनर्भवप्रबन्धकरं न भवति मोक्षकरमेव तु भवतीत्यनवयं हि कर्म तत्, सर्वत्र हि भगवता निर्निदानत्वमभिप्रशस्तम्, उक्तं हि "भुज्जो निदानकरणं मुक्खमग्गस्स पलिमंथ, सव्वत्थविणं भगवया अणिदाणदा पसत्था' (दशाश्रुतस्कंधे)" इति॥ ततो यद्यप्याशु न लभते तथापि तत्सम्यग्दर्शनादिकृत एव स तस्य मोक्ष इति / इदानीं विचित्रप्रस्थानत्वादधमादिषट्पुरुषविशेषनिधोरणेन मङ्गलपूर्वकत्वाच्छास्त्रप्रवृत्तेमेङ्गलपूर्वकमिदं शास्त्रम्, तच्चात्रैकान्तिकादिफलयोगात् प्रकृष्टत्वाच्च नमस्कारो भावमङ्गलं प्रवचनसद्धर्मतीर्थप्रणायिने महावीरायेति भगवत एव पूज्यानुत्तरत्वप्रतिपादनार्थम्, तदनुषङ्गतः शास्त्रोपोद्घातार्थे प्रवक्तृशुद्धेः प्रवचने शुद्धिराख्याता स्यादिति भगवति जातप्रसादबहुमानो गुणज्ञः सङ्ग्रहकारः श्रोतृणां शास्त्रे गौरवोत्पादनार्थ चाह-"कर्माहितं" (4) इत्यादि / पुरुषार्थानां चतुर्णामुभयस्मिन्नपि लोके यो विपरीतानुष्ठायी अत्यन्तमुभयलोकगर्हितपरदारचौर्याद्यासेवमानः सोऽधमाधमः // 1 // ऐहलौकिकसुखप्रार्थनापरः परलोकसुखविमुखः ऐहिकप्रत्यपायभयादत्यन्तनिन्द्यचौर्यपरदारादि परिहरन् विषयसुखासक्तः पुरुषोऽधम इत्यनुमीयते // 2 // स्वप्रस्थानात् य उभयलोकार्थ प्रयतते दानाध्ययनाद्यासेवमानः सत्कारलाभयशोमित्राद्यैहिकं फलं परलोकेऽपि नृसुरैश्वर्यप्राप्तिमभिकाङ्क्षन् स विमध्यमोऽनुमीयते // 3 // यः पुनरिहसुखनिरपेक्षोऽभिषेचनोपवासब्रह्मचर्यगुरुकुलवासभैक्ष्याद्यासेवमानः परतीर्थिको लोकोत्तरमार्गप्रतिपन्नो वा देवेन्द्रचक्रवर्तिमहामाण्डलिकाद्यैश्वर्यसमाकृष्टमानसः सौभाग्यादि वा प्रार्थयमानो निदानपरस्तपोविक्रयेण परलोकसुखमेव प्रधानीकुर्वन् मध्यम इत्यनुमीयते // 4 // दृष्टानुनौविकेष्वर्थेषु शुद्धयतिशयदर्शनादपरितुष्यन् संसारभयोद्वेगात् सर्वसङ्गत्यागो लोकद्वयनिःश्रेयससुखावह इति मत्वा न पुनर्विषयाभिष्वङ्गे मन आधेयमिति निःश्रेयसावाप्तिप्रधानः सर्वथा पुनर्भवप्रबन्धोच्छित्तये प्रयतितव्यम् इत्येवंपरानुष्ठानः "कर्मक्लेशाभावो यथा भवत्येष परमार्थः" (2) इति तत्प्राप्तियोग्यानि साधनानि सम्यग्दर्शनज्ञानचारित्राणि सर्वातिचारविशुद्धथा समाचरन् उत्तमोऽनुमीयते, ऐकान्तिकात्यन्तिकनिरतिशयानाबाधनिःश्रेयसफलप्रधानकृतार्थत्वप्रार्थनात् // 5 // यः पुनः प्रार्थनीयात्यन्तविशुद्धफलप्राप्तावत्यन्तकृतार्थोऽपि प्रार्थनीयफलाभावात् परनिमित्तोपकारफलनिरपेक्षः सत्त्वानामनुपयाचितनिष्कारणवत्सलः अत्यन्तहितपरः परोपदेशे वर्तते निसर्गत एव सोऽत्यन्तशुभतीर्थकरनामकर्मोदयप्रभावात वक्तव्य एवोपदेश इति तीर्थकृत्त्वस्वाभाव्यात् प्रयतते, भास्करे प्रकाशनप्रवृत्तिवत्प्रकृष्टतमत्वात् सर्वलोकोत्तमः ततश्च पूज्यानामपि पूज्यतमत्वाद देवाधिदेव इत्यभिलषितार्थप्रेप्साकृता १'मर्थानभि' इति क-पाठः। 2 भूयो निदानकरणं मोक्षमार्गस्य परिमन्थः (विघ्नः ), सर्वत्रापि च भगवता अनिदानता प्रशंसिता। ३शास्त्रेप्याद्यान्तार्थ' इति क-ख-पाठः / 4 'श्राविकेष्टार्थेषु' इति ग-पाठः। ५'शुद्धयन्न इति शुद्धयनावा' इति क-पाठः। 6 'योग्यानि सम्यक्' इति ग-पाठः /